________________
विभक्त्यर्थनिर्णये ।
३०३
भाववचनाश्चेति सूत्रेण घञादौनां भावप्रत्ययानां कियार्थत्वं प्रत्याय्यते तच्च पूर्ववत् फलस्य ज्ञानेनेच्छया वा द्वारा प्रयोजकत्वं तथा व घञः प्रयोज्यत्वमर्थस्तच्च गमनेऽन्वेति तत्र पाकादिशब्दात् द्वितीयादिप्रसक्तिविरहेण प्रथमप्राप्ततया प्रथमा प्राप्ता तदपवादाय साधुत्त्वार्था चतुर्थ्यनुशिष्यते पाकाय गच्छतोत्यत्र पाकप्रयोज्यं गमनं वाकप्रार्थ एतेन भावघञन्तात्तादर्थ्य चतुयैव पाकाय व्रजतौतिप्रयोगोपपत्त्या तुमर्थादिति भाववचनाश्चेति चानुशासनद्दयं व्यर्थमिति निरस्तम् । कियाया: कियान्तरार्थत्वे विशेषतस्तुमुनो विधानेन घञोऽप्रवृत्तेर्भाववचनाश्चेत्यस्यात एवं क्रियाया: कियान्तरार्थत्वस्य तादर्घ्यत्वविरहेण तादयं चतुर्थ्यप्रसत्या प्रथमापवादकचतुर्थी विधायकस्य तुमर्थादित्यस्य च सार्थक्यसंभवादित्याहु: । वस्तुतस्तु भाववचनाश्चेति सूचं तुमुर्थादितिसूत्रेण चतुर्थीविधानार्थमेव चतुर्थी विना कियार्थभाववचन प्रयोगस्य क्वाप्यदर्शनात् तथा च क्रियायाः क्रियान्तरार्थत्वस्वरूपस्तुमर्थञ्चतुर्थ्या अर्थस्तव कियाइयस्य धातुलभ्यतया प्रयोज्यत्वमात्रं तुमुन इवास्वा अप्यर्थः भाववचनाचेति सूत्रं तुमर्थादित्यव भाववचनादिग्रहणं चेच्छादिस्वरूपे तुमर्थे चतुर्थीप्रसक्तिवारणार्थमेव पाकायेत्यच सुब्विभक्तेः प्रातिपदिकप्रकृतिकतथा षञादिविरहे चतुर्थ्यनुपपत्तेरिति भावः एवं घञादिप्रयोज्यत्वं च फलज्ञानादिद्दारकं पूर्ववद्दोध्यम् । एवं पाकाय व्रजति भोजनाय प्रविशति मुक्तये ऽधीत इत्यन पाकप्रयोज्यं गमनं भोजनप्रयोज्यः प्रवेशो मुक्तिप्रयोज्य
1
Aho : Shrutgyanam_