________________
३०२
चतुर्थीविभक्तिविचारः ।
वाक्यार्थः । नृसिंहं प्रौणयितुं नमस्कुर्म इत्यत्र नमस्कुर्मो नृसिंहायेति प्रयोगस्तच नृसिंहप्रोगनप्रयोज्यो नमस्कारो वाक्यार्थः पटमुत्यादयितुं यतते इत्यत्र पटाय यतत इति प्रयोगस्तत्व पटोत्पादप्रयोज्यो यत्नो वाक्यार्थः न चाव विषयत्वं चतुर्थ्यर्थः पटविषयताको यत्वो वाक्यार्थ इति वाच्यं चतुर्थ्या विषयत्वार्थकत्वे अनुशासनविरहात् विषयत्वसामान्यस्य तदर्थत्वे पटत्वाय यतत इति प्रयोगापत्तेः साध्यत्वस्य तथात्वे पटार्थतन्तुसाधने पटाय यतत इति प्रयोगानुपपत्तेः उद्देश्यत्वस्य तथात्वे स्वकामो गङ्गास्नानाय यतत इतिप्रयोगानुपपत्तेः न चात्र तादर्थ्याविधानात् चतुर्थ्या जनकत्वमर्थ पटजनको यत्नो वाक्यार्थ इति वाच्यं तथासति तन्तुसाधने पटानुत्पादे पटाय यतत इतिप्रयोगस्याप्रामाण्यापत्तेः कियार्थी पपदस्येत्युक्त्या प्रविश पिण्डोमित्यव न चतुर्थी - भक्षेरव स्थानित्वात् कर्मगौत्युक्त्या फलेभ्यो गच्छति शकटेनेत्यत्व करणे न चतुर्थी फलेभ्यो गच्छतीत्यत्राहमित्यध्याहृतं तवा हरणान्वयिकर्मत्वं चतुर्थ्यर्थः फलकर्मकाहरणार्थकं गमनं वाक्यार्थ इत्यपि वदन्ति । भावकृदन्तात् प्रातिपदिकात् चतुर्थी ज्ञापयति । "तुमर्थाच्च भाववचनादि"ति सूत्रं तुमर्थाः क्रियार्थकिय:र्थका ये भाववचना भावप्रत्यया घञादयस्तदन्तात्यातिपदिकात् चतुर्थो भवतीत्यर्थकं पाकाय गच्छतौत्यत्र चतुर्थ्यास्तुमर्थोऽर्थस्तुमर्थस्तु पक्तुं गच्छतीत्यत्र समानकर्तृकत्व मुद्देश्यत्वं च तथा च समानकर्तृकं पा कोई श्यकं गमनं वाक्यार्थ इति वदन्ति । शाब्दिकास्तु
Aho! Shrutgyanam