________________
विभक्त्यर्थनिर्णये ।
३०१ ग्रामं ग्रामाय वा गच्छतीत्यत्र द्वितीयाचतुर्योराधेयत्वलक्षणं कर्मत्वमर्थस्तच्च गत्यर्थफलसंयोगेऽन्वेति । तथा च गामत्तिसंयोगानुकूलः स्पन्दो वाक्यार्थः अत एव संप्रदानचतुर्थ्या गत्यर्थकर्मणि चतुर्थीविधेर्न प्रत्याख्यानमिति प्रगेवोक्तम् । इति संप्रदानसंज्ञकर्मसंतककारकार्यकचतुर्थीविवरणम् ।
अन्यादृशार्थिकां चतुर्थी ज्ञापयति । "क्रियार्थोपपदस्य च कर्मणि स्थानिन” इति सूत्रम् । क्रिया क्रियार्था उपपदं यस्य स क्रियार्थोपपदस्तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुन: कर्मणि चतुर्थी विभक्तिभवतीत्यर्थक"तुमुन्ण्वुलौ क्रियायां क्रियार्थायामि"ति सवेण क्रियायाः क्रियार्थत्वे तुमुनो विधानात् तद्पपदत्वं व्यक्त क्रियायाः क्रियार्थत्वं फलविधया क्रियाप्रयोजकत्वं यथान्नं भोक्तुं बजतीत्यवान्नभोजनफलस्य गमनप्रयोजकत्वं तुमुनः फलजानहारकप्रयोज्यत्वमर्थस्तथा चान्नकर्मकभोजनप्रयोज्यं गमनमिति वाक्यार्थस्तुमुन ईदृशार्थकत्वे गमने भोजनासंपत्तावपि न दर्शितप्रयोगस्याप्रामाण्यम् एवं भोक्तमिति तुमुन्नन्तस्याप्रयोगे भोजनकर्मान्नवाचकशब्दात् चतुर्थी भवति तथा चान्नायौदनाय वा ब्रजतीयत्र चतुर्थ्या भोजनं ज्ञानहारकमिच्छाहारकं वा प्रयोज्यत्वं चाथ: प्रकृत्यर्थस्यान्नस्य कर्मतासंसर्गेण भोजने तस्य निरूपकतया प्रयोज्यत्वे तस्य स्वरूपेण गमनेऽन्वय इत्यन्नभोजनप्रयोज्यगमने वाक्यार्थ इति । एवं फलान्याहतुं वनं यातीत्यत्र फलेभ्यो वनं यातीतिप्रयोगस्तत्र फलाहरणप्रयोज्यं वनकर्मकगमनं
આ પુસ્તક શ્રી જૈન મુની nema
Aho! Shrutgyanam