________________
चतुर्थीविभक्तिविचारः। तिदानजन्य नियतकाल कस्वत्वजनकः परिग्रहः परिक्रय इत्युच्यते तत्र भृतौ तादात्म्येन शतस्यान्वयः संसगंतया लब्धकरणत्वस्यानुवादिका दृतीया चतुर्थी च ज्योतिष्ठोमेन यजेतेत्यत्न टतीयावदित्याहुः । वस्तुतस्तु भोगजनकनियतकालकस्वत्वफलको व्यापारः परिक्रयः स च व्यापार इच्छेव भृतिः शतादिका मासादिभोगव्यवस्थया गृहौता मासादिव्यापकं परकीयस्वत्वं जनयति भृतिदानजनितस्वत्वं भोगं जनयति न तु विक्रयदानादिकं परिलेटक्कतविक्रयदानादेरसिद्धेः भोगस्य विक्रयो दानं च परिक्रतुरपि सम्भवति । एवं शताय शतेन वा परिक्रीतो वृषभ इत्यत्न चतुर्थीटतौययोः करणत्वं व्यापारोऽर्थः स च व्यापारः परस्वत्वोपहितं दानं शतत्तिस्वत्वं प्रति ताहाल्येन शतस्य जनकत्वात् स्वत्वोपहिते दाने स्वत्वहारकं शतस्य जन्यत्वमिति शतव्यापारत्वमक्षतं यदि च भाविदानेन परिक्रयव्यवहारी न गौणस्तदा शतस्य स्वज्ञानहारकं दाने जन्यत्वमिति तद्यापारत्वं बोमिति शतस्य जन्यतया कर्मतया च व्यापारे दाने तस्य परिक्रयफले तथाविधस्वत्वे ऽन्वयस्तवैव स्वत्वे परिक्रयव्यापारस्येच्छाया उद्देश्यत्वेनाऽन्वयस्तस्य स्वत्वस्य कर्मक्तप्रत्ययार्थ आश्रयेऽन्वयः यदि च परिक्रयकर्मणो विद्यमानतायामपि परिक्रयव्यवहारस्तदा क्तप्रत्ययार्थी निरूपकं तवैव तस्य स्वत्वस्यान्वयस्तथा च शतजन्यतत्कर्मकदानजन्यस्येच्छोह श्यस्य भोगजनकनियतकालकस्वत्वस्याश्रयो निरूपको वा वृषभ इ. त्यन्वय बोधः । यत्न व्यवस्थितकालकं न स्वत्वं भृतिशे
Aho! Shrutgyanam