________________
विभक्त्यर्थनिर्णये।
२९९ षस्य प्रत्यर्पणेन परिक्रेयस्यापचारेण वा तत्र परिक्रयव्यवहारार्थ तथाविधस्वत्वोद्देश्यिकेच्छा परिक्रोणातेरभिधेयत्वेनोक्ता नियतकाल कस्वत्वं प्रति तु मृतिदानं कारणमत एव परिक्रायणं नियतकालं वेतनादिना स्खौकरणं नात्यन्तिकः कय एवेति काशिका न चात्र बेतनदानादिजन्यनियतकाल कस्वत्वानुकूल व्यापारः परिकोणातेरर्थः परिकय इति वाच्यं तथासति नियतकालमित्युपादानवैयापत्तेः वेतनदानादिजन्य स्वत्वस्यावश्यं नियतकालकत्वात् वेतनाय शताय वेतनेन शतेनवा परिकीत इत्यादावनन्वयप्रसङ्गाच्च भृतेस्तच्छेषस्य वा प्रत्यर्पणं व्यवस्थितकालनाशी वा वेतनदानजस्वत्वनाशं प्रति हेतुरित्यन्यव विस्तरः । यजतियोगे संप्रदानस्य कमत्वं बोधयति । "कर्मणः करगसंज्ञा वक्तव्या संप्रदानस्य कर्मसंन्जेति"वार्तिकं कर्मणि हितौयायाः संप्रदाने चतुर्थ्याश्चापवादः यजतियोगे करणसंज्ञा कर्मसंज्ञाविधानात् । एवं पशुना रुद्रं यजत इत्यत्न यजतेमन्त्रकरणाकः स्वत्व ध्वसफलकस्त्या गोऽर्थः । यच्च काशिकायां पशुना रुद्रं यजते पशुं रुद्राय ददोतीत्यर्थ इति स्वत्वफलकल्यागार्थकददातिना यजतिविवरणं तत्त्यागरूपैकदेशार्थाभिप्रायेण यथोपेक्षावारणोय ददात्यर्थे स्वत्वफलकत्वं तथा यजत्यर्थ मन्त्रकरणकत्वं विशेषणं प्रकृते ददातिर्यजतिपर्याय एव देवानां विनियोगाभावात् स्वत्वाप्रसक्तः देवस्वमित्यादौ देवप्रौत्युद्देश्यकत्यागकमैत्वं देवस्वत्वं प्रतीयत इत्यन्यत्र विस्तरः । तृतीयायाः कर्मत्वमाधयत्वं स्वत्वध्व सान्वय्यर्थः चतुर्थ्याः प्रीतिर
Aho ! Shrutgyanam