________________
विभक्त्यर्थनिर्णये ।
नाधिकरण्येनाध्यन्वयः सामानाधिकरण्यमें ककालावच्छेदेनैकत्र वर्तमानत्वं तथा च होटटत्तिशंसनस्य समा नाधिकरण स्तविशेष्यताकश्च यः कर्तत्र्यत्वप्रकारकाध्य वसायस्तदनुकूलव्य पाराश्रयोऽध्वर्युरित्यन्वयबोधः । परम्परया शंसनफलकस्य हर्षणस्यापेक्षया साचात् शंस - नफलकस्य कर्तव्यत्वाध्यवसायस्य धात्वर्थत्वमुचितं न च हर्षणं न शंसनफलकमिति वाच्यं तथासति हर्षकख व्यर्थव्यापारतया प्रमत्तत्वापत्तेः । एवं होत्रेऽनुगृणाति होतारं शंसन्तं प्रोत्साहयतीत्यर्थं इति काशिका लड़दय| प्रयोगं दर्शयन्ती कालघटित सामानाधिकरण्येनान्वयं सूचयति एवं निन्दकायानुगृणाति खल इत्यादावन्यवापौयं रौतिर्बोध्येति । परिक्रयार्थकधातुयोगे चतुर्थी ज्ञापयति । "परिक्रयणे संप्रदानमन्यतरस्याम " इति सूत्रं परिक्रयणे साधकतमं संप्रदानसंज्ञं भवतीत्यर्थकमन्यतरस्यामित्यनेन करणसंज्ञकमपि तद्बोध्यते वेतनदानादिपूर्वको नियतकालावच्छेद्यखत्वानुकूलो व्यापार: परिक्रय इत्युच्यते तत्र करणत्वार्थिका तृतीया चतुर्थी च भवति शताय शतेन वा परिक्रीतो वृषभ इत्यत्र चतुर्थीतृतौययोः करणत्वं व्यापारोऽर्थः स च व्यापारो दानं जन्यतया परिक्रयफले खत्वेऽन्वेति तथा च शतदानजन्यस्य परिक्रय प्रयोज्य खत्वस्याश्रयाभिन्नो वृषभ इत्यन्वयबोधः । परिक्रयजन्यं च स्वत्वं तत्रैव वस्तुनि व्यवस्थितकालमवस्थाय नश्यति व्यवस्थितकालानन्तरं तु स्वत्वान्तरमुत्पद्यते ऽथ वा व्यवस्थावशादेकमेव स्वत्वं कालान्तरव्यापकं भवतीति संप्रदायः । स्वतन्त्रास्तु भू
३८
Aho ! Shrutgyanam
२९७