________________
विभक्त्यर्थनिर्णये ।
ર૮૯ उत्तमर्णग्रहणं देवदत्ताय शतं धारयति ग्रामे इत्यत्र ग्रामस्य संप्रदानतानिषेधार्थमिति स्पृहोगे चतुर्थी तापयति । "स्पृहेरौमितः" इति सूत्रं स्पृहोगे ईप्सितो योऽर्थस्तत्कारकं संप्रदानसंखं भवतीत्यर्थकम् । ईमित इत्यवाभिप्रेत उच्यत इति काशिका पुष्पेभ्य: स्पृहयति रसिक इत्यत्र स्पृहेरभिलाषोऽर्थः चतुर्थ्या विषयत्वमर्थ: एवं पुष्पविषयताकाभिलाषाश्रय इत्यन्वयबोधः । ६. स्त्रीषु प्रवौरजननी जननी तवैव
देवी स्वयं भगवती गिरिजाऽपि यस्यै । त्वहोर्वशौकृतविशाखमुखावलोकब्रीडाविदीर्णहृदया स्टहयांबभूव ॥ इत्यत्र रेणुकासदृशौ भवेयमित्यभिलाषस्तत्र रेणुकाविषयत्वस्यानपायान्न चतुर्थ्या अनुपपत्तिः यदि च विषयत्वमा न चतुर्थ्यथ: तथासति पुष्पत्वं स्टहयतीति प्रयोगापत्तेः किं तूहे श्यत्वं तच्च दर्शिताभिलाषे न रेणुकायाः किं तु तत्मादृश्यस्येति यस्यै भगवती स्टहयतीव्यत्व चतुर्थी नोपपद्यत इति विभाव्यते तदा खौक्रियतां नादाम्येनोद्देश्यप्रकारकोऽभिलाष: ब्राह्मणोऽहं स्यामिनौच्छाकारदर्शनात् ब्राह्मण दृष्टमा धनं ब्राह्मणोऽहमिति जानहयेन बिशिष्टज्ञानेन वा तथाविधेच्छाजननसम्भवात् तथा च रेणुका भवेयमित्यभिलाष एव स्पृहा तत्र रेणुकाया उद्देशयत्वं निराबाधमिति चतुर्थ्यां] नानुपपत्तिरिति संप्रदायः । वस्तुतस्तु पुष्पेभ्यः स्पृहयतीत्यत्र पुष्मादीनां सिद्धत्वादुद्देश्यत्वं न सम्भवतीति नीदेश्यत्वं चतुयर्थः किं तु सूचे मितशब्दोपादानात् ई
Aho! Shrutgyanam