________________
चतुर्थीविभक्तिविचारः ।
4
विनियोगकाले स्वव्यवहारऋण व्यवहारेण तुल्ययोगक्षेम: शास्त्रमपि ऋत्वे स्वत्वे च तुल्यं शास्त्रस्याननुगतप्रवृत्तितिमित्तक ऋण पद्घटितत्वमिव तादृशस्वपदघटितत्वमपि तदेतदन्यत्र विस्तृतमिति वदन्ति । वस्तुतस्तु उद्धारनाश्यपापजनकग्रहणाहितव्यापारी धारयतेरर्थः फलीभूतगणाविषयतया शतादीनां कर्मत्वमुत्तमर्गः प्रयोक्ता प्रयोगः कलाजिष्टक्षा तज्जन कज्ञानजन्यसंस्कारः उपकारकता कीर्त्तिजनक: पुण्यविशेषो वा स च चतुर्थ्यर्थः तथाविधपापवानधमर्णः एवं देवदत्त - निष्ठकला जिघृचादेः प्रयोज्यं यत्तथाविधं शतकर्मकग्रम्हणं तत्प्रयोज्यव्यापारो भोजनादिस्तदाश्रयत्वं वाक्यार्थः ऋणामपि तथाविधग्रहण कर्मबोध्यम् ऋणां धारयतीत्यव ग्राह्य गृह्णातीत्यचेवान्वयो बोध्यः एवमर्थान्तरेऽपि धारयतेः प्रयोगे चतुर्थी दृश्यते यथा ।
૨૪
सेवन वेतनमृगामिह
मह्यं दोनाय धारयसि ।
अतिचण्डि चण्डखण्डिनि वदाम्यपणे ऽतिभौतितो भवतीम् ॥
इत्यव धारयतेरभीष्टफलदानानुकूलव्यापारोऽर्थः - गापदलच्यमवश्यदेयं वेतनपदलच्यं साध्यम् एवं सेव - नसाध्यावश्यदेयकर्मको योऽभीष्टप्रयोजकदानानुकूली व्यापारस्तदाश्रयस्त्वमित्यन्वयबोधः मामित्यत्र चतुर्थ्यर्थः पुण्यविशेषः स प्रयोज्यत्वेन व्यापारे ऽन्वेति एवं ग्राह्यं गृह्णातीतिवत् उत्तमर्णाय धारयति अधमर्णो धारयतीत्यादौ विशेषणविशेष्यभावव्यत्यासेनान्वयो बोध्यः सूत्रे
Aho! Shrutgyanam