________________
૨૮૬
चतुर्थीविभक्तिविचारः ।
शाविषयः प्रतीयते ईशा आप्तीच्छा आप्तिः संबन्धस्तथा चातिश्चतुर्थ्यर्थः स च संबन्ध: पुष्पेभ्य इत्यच खत्वं संयोगश्च रेणुकायै इत्यत्र तादात्म्यसंबन्धस्तूद्देश्यितया स्पृहायामन्वेति तथा च पुष्पसंयोगस्पृहाश्रयः रेणुकातादात्म्यस्टहाश्रय इत्यन्वयबोधः कान्तस्य स्टहे इत्यव शेषषष्या विषयत्वमर्थः स्पृहायामन्वेति यथा घटज्ञान घटत्वस्य यथा वा घटेच्छा घटत्वस्येत्यादाविति । ननु स्पृह ईप्सायामित्यनेन स्टहेरिच्छार्थक वं तत्रेच्छामात्रार्थकत्वे फलावाचकत्वादकर्मकत्वं विषयतारूपफलवाचकत्वेऽपि विषये निरवकाशया संप्रदानसंज्ञया कसंज्ञाबाधात् ईप्सितभेदस्य कर्मप्रत्ययार्थस्यानन्वयाहा कर्मप्रत्ययानुपपत्तेः स्पृहणीयगुणैरित्यादिप्रयोगो अनुपपन्न इति चेत् दानोयो ब्राह्मण इत्यादिप्रयोगदर्शनात् संप्रदानेऽध्यनीयरः प्रवृत्तेः स्पृहणीय इत्यत्व कृत्यप्रत्ययस्य संप्रदानार्थकत्वं न तु कर्मार्थकत्वं एतेन " परस्परेगा स्पृहणीयशोभं न चेदिदं द्वन्द्रमयोजयिष्यत्" इत्यपि समाहितं हरदत्तस्तु यवेच्छामात्रार्थकत्वात् फलावाचक: स्टहिस्तव विषयत्वमुद्देश्यत्वं वा चतुर्थ्याभिधन्ते यत्र च विषयतास्वरूपफलवाचकस्तत्र कर्मप्रत्ययो निरपवाद एव अत एव "स्पृहयन्ति गुणान्मनीषिणः परिवादं तु परस्य दुर्जना " इति एवं स्पृहणीय इति कर्मण्येव कृत्यप्रत्ययः यत्र च विषयता शेषत्वेन विवक्षिता तव शेषषष्ट्येव यथा " कुमार्य इव कान्तस्य वस्यन्ति स्पृहयन्ति चेतीत्याह वस्तुतस्तु यत्र स्पृहेरुत्कटेच्छार्थस्तचैवाप्तिश्चतुर्थ्यर्थः यत्र चे
Aho ! Shrutgyanam