________________
२७१
विभक्त्यर्थनिर्णये । त्वात् स्वत्वे गोत्तित्वमर्थाल्लम्यत तेन पुत्रस्य राज्यकामनया गवि पुत्राय गां ददातौति न प्रयोगः इति वदन्ति । तन्न विचारसहं स्वत्वध्वं सानुकूलव्यापारस्य ददात्यर्थत्वे उपेक्षायामपि ददाति प्रयोगापत्तेः प्रतिग्रहस्य समित्कशायुपादानसाधारगोन रूपेण स्वत्वजनकत्वेन्योद्देशेन त्यक्तेऽन्यस्योपादाने स्वत्वोत्पत्तिप्रसङ्गात् उपादानमात्रस्य स्वत्वजनकत्वे नाष्टिकहिरण्यादावप्यपादानमाचे स्वत्वोत्यत्तिप्रसङ्गात् तस्माद्दानमेव स्वत्वकारणम् । अत एवान्योद्देशन त्यतोऽन्यस्योपादाने न स्वत्वप्रसङ्गः वचने प्रतिग्रहस्य गगनं दानोपलक्षकमेव उपादानेन स्वत्वे जननीये समित्कुशादौनां तादात्म्यमिव दानमपि विशेषसहकारि तथा च तत्पुरुषोयस्वत्वप्रकारतानिरूपितविशेष्यतासंसर्गेण त्यागस्तत्पुरुषस्वत्वं प्रति कारणं स्वत्वध्वंसो व्यापारः स्वत्वजनकस्त्यागो ददात्यर्थस्तन ब्राह्मणाय गां ददातीत्यत्र निरूपकत्वं स्वामित्वं वा चतुयर्थ: ब्राह्मणनिरूपितस्य ब्राह्मण निष्ठस्वामित्वनिरूपितस्य वा स्वत्वस्य स्वत्वध्वंसव्यापारेण जनकस्त्यागो वाक्यार्थ: अथ वा स्वत्वोद्देश्यकस्त्यागे ददात्यर्थः चतुर्थ्याः पूर्वोक्त एवार्थः अत एव संप्रदानास्वौकतस्याप्युत्मर्गे स्वत्वानुपहिते च ददातिप्रयोगोऽप्युपपद्यते यत्तु उत्सर्गेण समनन्तरमेव संप्रदानस्वत्वं जन्यते न चैवमस्वीकृतेऽपि संप्रदानस्वत्वापत्तिरिति वाच्यम्। दानेन स्वत्वजनने बैमत्यस्य प्रतिबन्धक वात् अस्वीकृते तत्सत्त्वात् अत एव तदुद्देशेनोत्सृष्टे तस्मिन्प्रतिगृह्मैव मृते तत्पुत्रादीनां स्वत्वोत्पत्तिरुपपद्यते तद्यक्तिमरणजन्यस्व
Aho ! Shrutgyanam