________________
'२७२
चतुर्थीविभक्तिविचारः। त्वध्वंसहारेण तद्यक्तिमरणस्य वा तत्पुत्रस्वत्वं प्रति जनकत्वात् एवमपुत्रव्यक्तिमरणजन्यस्वत्वध्व सस्य तत्पनौस्वत्वं प्रति जनकत्वम् "अपत्वस्य धनं पत्न्यभिगामौ"ति विष्णुस्मरणात् । ऋतुमवेच्य मृते पितरि जातमपि स्त्रीस्वत्वं पुत्रोत्पत्त्या नाश्यते स्वजन्मजनितमाटस्वत्वनाश: मातृस्वत्वनाशहारेणु स्वजन्म वा स्वस्वत्वं प्रति कारणं पुत्रोत्पत्तिपूर्व मावा विक्रीते न पुत्रस्वत्त्वं जन्मजनितमातस्वत्वनाशविरहादित्यवश्यमुत्सगेंणाव्यवधानेन पुंसो व्यवहितस्थापि स्वत्वं जन्यत इति मतं तन्त्र एवमपि मृतं प्रोषितं बोद्दिश्य त्यते तत्पुत्रस्य स्वत्वानुत्यादप्रसङ्गात् उत्सर्गे व्यवस्थान्तरस्यावश्यमाश्रयणीयत्वात् । अन्यथा ब्राह्मणमात्रमुद्दिश्य त्यक्ते तुलापुरुषादौ ब्राह्मणसामान्यस्वत्व प्रसङ्गात् परस्व दातुविभज्य वितरणेऽनधिकारप्रसङगाच्च तस्मादुत्सर्गेण स्वत्वे जननीये प्रतिपादनं सहकारोति नाव्यवहितमेव स्वत्वोत्पत्तिरिति इत्थं च स्वत्वनिरूपकत्वं संप्रदानत्वं तत्र स्वत्वं ददात्यर्थान्तर्गतं निरूपकत्वं चतुर्थ्यर्थ इत्येवं संप्रदानमित्यन्वर्थसंज्ञा अत एव संप्रदानमित्यन्वर्थसंजाबलाहानस्य कमणेति विज्ञायत इति काशिकात्तिरिति प्राञ्चः । वस्तुतस्तु स्वत्वध्वंसजनकः स्वत्वोद्देश्यकस्त्यागो ददात्यर्थः स च त्यागो नेदं मम किं त्वस्य स्यादित्याकारस्ताद्वशत्यागरूपेच्छाविषयत्वं संप्रदानत्वमत एव सवेअभिप्रेतीत्यत्र दानस्य कर्मणेतिशेषपूरणं विषयत्वमुद्देश्यतावच्छेदकत्वं तदेव चतुर्थ्यी इच्छान्वयिब्राह्मणस्य स्यादित्यत्र षष्यर्थस्वत्वनिष्ठोद्देश्यताथा अवच्छेद
OG
Aho! Shrutgyanam