________________
विभक्त्यर्थनिर्णये ।
अथ चतुर्थी। डेव्यांभ्यसिति त्रय: प्रत्ययाः । तत्र सुमनसे ददातोत्यादौ श्रूयमाणत्वा देकारस्य तत्त्वेन ज्यामित्यस्य भ्याम्त्वेन ब्यसो भ्यस्त्वेन वाचकत्वम् । ङकारोऽनुबन्धः क चिदप्यशू यमाणत्वान्न वाचकताकुक्षिप्रविष्ट इति अनुशासनसिद्धाश्चतुर्थ्या अर्था: अनुशासनं च "चतुर्थी संप्रदान" इति । तत्र संप्रदानं संप्रदानत्वं वाऽर्थ इति वक्ष्यते । अत्राप्यनभिहिते इत्यधिकारस्तेन दानीयो ब्राह्मण इत्यादौ न चतुर्थी । संप्रदानपदसंकेतग्राहक सूत्रम् । "कर्मणा यमभिप्रेति स संप्रदानमिति । कर्मणा करणभूतेन कर्ता यमर्थमभिप्रेति तत्कारकं संप्रदानसतं भवतीत्यर्थकम । कर्मणा धात्वर्थफलवता गवादिना स्वामित्वेनोपाध्यायादेरभिप्रायविषयौकरणात् उपाध्यायादे: संप्रदानत्वं निरपवादमित्युध्यायाय गां ददातीत्युपपद्यते । “क्रियाग्रहणमपि कर्तव्यमिति वार्तिकम । क्रियया ऽपि यमभिप्रेति स संप्रदानमित्यर्थक क्रियापद चात्र क्रियाप्रयोज्यफलपरं फलं च धात्वर्थभिन्नं बोध्यम् अत एव श्राद्धाय निगहते युद्धाय संनह्यते इत्युपपद्यते । अब निगहतर्गर्हामानमर्थ: प्रयोज्य फलं विषयत्वं संनद्यते: संनाह: सज्जीभाव एवार्थ: प्रयोज्यफलं युद्धे प्रवृत्तिः वि. रहाविषयत्वं श्राद्धे संनहनानन्तरप्रतियु वे इति श्राद्धयद्धयोः संप्रदानत्वमिति सूबे धात्वर्थफलवतः कर्मगणः मंबन्धितया संप्रदानत्वं वार्त्तिके धात्वर्थान्यफलसंबन्धितया संप्रदानत्वमिति सूत्रवाति कयो कतरवैययं वस्तुतस्तु सूत्रे कर्मपदं क्रियापरं क्रिया च
Aho! Shrutgyanam