________________
विभक्त्यर्थनिर्णये ।
२६५
सूत्रम् । प्रसितोत्सुकाभा योगे तृतीया भवति चकारात्सप्तम्यपौत्यर्थकम् । प्रसित उसको वा हरिणा प्रसित उत्सुको वा 'हरौ प्रसितः प्रसक्त आसक्तः लयवानिति यावत् लयो धारापन्नं ज्ञानं तादृगिच्छा वो उत्सुक उत्कण्ठाबान् उत्कण्ठा उत्कटेच्छा एवं तृतीयासप्रम्योर्विषयत्वमर्थस्तस्य प्रतियोगितया लये उत्कण्ठायां चान्वयस्तथा च हरिविषयताप्रतियोगिलयवान् हरिविषयताप्रतियोग्युत्कण्ठावानिति चान्वयबोध: एवं केशैः केशेषु वा प्रसितः केशैः केशेषु वा उत्सुकः इति काशिकोदाहरणे अनया रोत्याऽन्वयो बोधाः । पुनरर्थान्तरे तृतीयां ज्ञापयति । " नचचे च लुपि" इति सूत्रम् लुप्तदितान्तार्थे वर्तमानात् नक्षत्रविशेषार्थकशब्दातीयासप्तम्यौ भवत इत्यर्थ विशेषार्थका दखिन्यादिशब्दात् ततायो युक्तः कालोऽर्थः तद्वितस्य लोपेऽनुसन्धानेनाश्विन्यादिशब्दस्य निरूढलक्षणया वाऽश्विनौयुक्तः कालः प्रतीयते । एवं पुष्येण पुष्ये वा पायसमश्नीयात् पुध्ये पुष्ये वा चौरमस्य इत्यत्र पुष्यपदस्य पुष्ययुक्तः कालोऽर्थः तृतौयासप्तम्योरुत्पत्तिरर्थः पुष्ययुक्तकालव्यत्तिकत्वं पायसभोजने चौरे चान्वेति । एवं "मूलेनावाहयहेव श्रवणेन विसर्जयेदि "त्यत्रावाहनमधिष्ठानफलको व्यापारः, अधिष्ठानं संबन्धः स च संयोगादिस्तद्बुद्धिर्वा संबन्धाभावस्तदुद्धिर्वानधिष्ठानं तत्फलको व्यापारो विसर्जनं मूलयुक्तकालोत्पत्तिकत्वम् श्रावाहने श्रवणयुक्तका - लोत्पत्तिकत्वं विसर्जनेऽस्वेति श्रत्र साधुनिपुणेति सूत्रादनुवर्तमानतया सप्तभ्या अधिकरणार्थकत्वं नियुक्तिक
३४
Aho ! Shrutgyanam