________________
विभक्त्यर्थनिर्णये ।
शिष्टा विद्यमानतया प्रतीयते तद्विशेषणं यस्याविद्यमानतया तत्त पलक्षणमिति तन्त्र अविद्यमानस्य वैशिटास्य तृतीयासहस्रेणापि बोधयितुमशक्यत्वात् योग्यताविरहात् श्यामेन घट दूत्यव वैशिष्टयस्य ममवायस्य रक्ततादशायामपि विद्यमानत्वात् श्यामस्योपलक्षणत्वानुपपत्ते: जटाभिस्तापस इत्यव तत्संबन्धस्य विद्यमानत्वादुपलक्षणत्वानुपपत्तेः यदपि संबन्धमा तृतीयाऽर्थः संबन्धो यस्य विद्यमानस्य प्रतीयते तद्विशेषणं यस्याविद्यमानस्थ तब मतुबादेर्वाधात्त तौयैवेति तदुपलक्षणमिति तदपि न सुन्दरं घटो विनाशीत्यवाविद्यमानस्य नाशस्येन्प्रत्ययेन संबन्धबोधनात् न चात्र प्रत्ययस्माधुत्वार्थः धात्वर्थो नाशः जानातीत्यादाविव प्रथमान्तार्थे साक्षादेवान्वयौति वाच्यं तथासति विनाशो न स्या स्यतीत्यत्रान्वयबोधानुपपत्तेः भावस्थितिकर्तत्वाभावस्य विनाशे बोधयितुमशक्यत्वात् किं चोत्पत्तिकालिको घटो गन्धवानित्यत्वाविद्यमानस्य गन्धस्य संवन्धो मतुपा बोध्यते तदनुपपत्तिः जटाभिस्तापस इत्यत्र विद्यमानाया जटायास्ततौयया संबन्धबोधने उपलक्षणत्वानुपपत्तिश्च श्यामेन घट इत्यव श्यामस्य स्वप्रागभावनाशः संबन्धः स चाजातश्यामघटव्यावृत्तं रन्वयितावच्छेदको भवति घटेनाभाव इत्यव घटस्य स्वप्रतियोगितानिरूपितानुयोगित्वं संबन्धस्तृतौयार्थः स च घटाप्रतियोगिको भावव्यावृत्ते रन्वयिताबछेदको भवति । न चात्र दर्शितसंबन्धेन घट एवान्वयितावच्छेदकोऽस्त्विति वाच्यं घटस्यातीतत्वेऽपि व्यावृत्तिबुदयादिति ।
Aho ! Shrutgyanam