________________
तृतीयाविभक्तिविचारः। कलक्कणितगर्भण कण्ठेनापूर्णितेक्षणः ।
पारावतः परिक्रम्य रिरंसुश्शुम्बति प्रियाम् ।। - इत्यत्र तृतीयार्थ आधेयत्वं तथाविधकण्ठे समवेते पारावते परिभ्रमणोत्तरप्रियाचुम्बनकट त्वान्वय इति आधेयत्वे टतीया प्रकृत्यादिभ्य इति वाति कसिद्धेति हैतुत्वार्थिकां तृतीयां ज्ञापयति "हेतो"इति सूत्रं हेतावर्थे तृतीया स्थादित्यर्थक हैताविति भावप्रधानो निर्देशः तथा च हेतुत्वं तृतीयार्थस्तञ्च विविध कारणत्वं ज्ञापकत्वं च कारणत्वं च साक्षात्परम्परासंबन्धावच्छिन्न हिविधं तत्व साक्षाद्यथा तन्तुभिस्तन्तनां मिलनेन वा पटः पाकेन सौरभं माधुर्य रतिमा वा क्षौरस्येति परम्परया यथा दण्डेन घटः बहिना धर्मः ओदनेन तृप्तिः यागेन स्वर्ग: अनुभवेन स्मरणं चेति अत्र प्रकृत्यर्थम्याधेयतया ततौयार्थे हेतुत्वे तस्य निरूपकतया कायें पटादावन्वयः तथा च तन्तुत्तिकारणतानिरूपको घट इत्याकारकोऽन्वयबोधः यदच निर्व्यापारसाधनं हेतुस्तृतीयार्थस्तस्योदाहरणं दण्डेन घट इति शाब्दिकमतं तल्लौकिकपदार्थानामप्यनभिज्ञानं सूचयति चक्रभ्रमिहारैव दगडो घटोत्पादक इति सकललोकावधारणविरोधादिति । ज्ञापकत्वं यथा धूमेन वह्निरित्यादि अत्रापि प्रकृत्यर्थस्याधेयतया तृतीयार्थे चापकत्वे तस्य निरूपकतया ज्ञाप्ये बनद्यादावन्वयः तथा च धूमत्तिज्ञा पकतानिरूपको वद्भिरित्यन्वयबोधः । मणिकृतस्तु ज्ञापकत्वं न ततौयार्थ: तथासति चक्षुषा रूममिति प्रयोगप्रसङ्गात् किं तु धमेन वद्भिरित्यत्न धमपदं धूमनाने वसिपदं वह्नित्ताने ज्ञाय
Aho ! Shrutgyanam