________________
विभक्त्यर्थनिर्णये।
२५७ लुना छात्मद्राक्षीत् छानेणोपाध्यायं शिक्षया परिव्राजकमिति तत्वाध्ययनशीलः छानशब्दार्थः कमण्डलो: स्वप्रयोज्याचमनसजातीयमध्ययनपूर्वाङ्गाचमनं संबन्धस्ततीयार्थ:"पौत्वाऽपोऽध्येष्यमाणचे"ति स्मतेराचमनमध्ययनपूर्वाङ्गं भवति तथाविधाचमनमच्छाचव्यावृत्तेरन्वयितावच्छेदकं भवत्येव न हि संबन्धस्य तौयार्थतावच्छेदकरूपेणैवान्वयितावच्छेदकं किं तु यदेव लघुभूतमनतिप्रसक्तं तेन रूपेण अत एव काकप्रयोज्योत्तुणत्वत्वेनोत्तणत्वस्य तृतीयार्थत्वेऽप्युत्त णत्वत्वेनैवान्वयितावच्छेदकत्वं छात्रस्य । खाध्ययनप्रयोजकमध्यापनं संबन्धस्तृतीयार्थः अध्यापनं वाक्यविशेषः उपाध्यायोऽध्यापनयोग्यः योग्यत्वं तु अधमापनवाक्यतदर्थगोचरदृढसंस्कारवत्त्वे सति वतत्वं वक्तात्वोपादानादवगतशास्त्राथस्य मूकस्य व्युदासः एवमध्यापनमुपाध्यायान्यव्याहत्तेरन्वयितावच्छेदकं भवत्येव शिखायास्तत्संयोगस्य वा विहितो ध्वंसः संबन्धस्तुतीयार्थः विहितशिखाध्वंसः परिव्राजकाच्चतुर्थाश्रमिणोऽन्यस्य व्यायत्तेरन्वयितावच्छेदको भवति विहितत्वोपादानाद्यवने शिखाध्वंसस्य सत्त्वेऽपि नावच्छेदकत्वहानिः । यदि च सौगतपरिव्राजको लक्ष्यस्तदाविहितभिक्षाशीलः परिव्राजकशब्दार्थः विहितत्वं तु कालान्तरभाविफलसाधनताबोधकविधिवाक्य विषयत्वं तादृशविधिवाक्यं वेदः सौगतागमञ्च तथासति विहितशिखाध्वंसः मशिखस्य विहित भिक्षाशीलस्य ब्रह्मचर्यादेाहत्तरन्वयितावच्छेदको भवतीति प्राचीनमतानुसारो पन्थाः वस्तुतस्तु गुरुणा कुरुणा शिखयेत्यत्न दर्शित एवार्थ: का
Aho! Shrutgyanam