________________
२५६ तृतीयाविभक्तिविचारः। गण्यकव्रतं संबन्धस्तुतौयार्थः अवैगण्यमनिषिद्धत्वं कर्तव्यजपादिलोपविरहो वा केशसंयमप्रयुक्तजपादिलोपस्य विषयासक्त केशिनि सम्भवान्नाप्रसिद्धिः केशसंयमप्रयुक्ताजपादिलोपविरहस्य संयतासंयतकेशयात्रते समानत्वादिति दशितव्रतत्वमेव तापसव्यात्त कह श्याया अन्वयितावच्छेदकं तस्य जटायाः सत्त्वासत्वदशायामप्यविकलत्वात् । अत एव संस्थानविशे षवत्त्वादिनेति मूले व्रतविशेषवत्त्वादिरादिपदार्थ इति दर्पणे ठकुराः । व्रते विशेषो जटासंबन्धतावच्छेदको दशित एव गुरुणा टीकेत्यत्र विवरणवाक्यं टोकाशब्दार्थः गुरुप्रयोजिता तत्सजोतीया वाऽनुपर्वी संबन्धस्ततीयार्थः स च टीकान्तरव्यावृत्ते रुद्दे श्याया अन्वयितावच्छेदको भवत्येवेति कुरुणा क्षेत्रमित्यत्न कुरोः स्वकष्टक्षेत्रपरमाणुभिरारभ्यत्वं संबन्ध स्ततीयार्थः स च क्षेत्रान्तरव्याहत्तरुद्देश्याया अन्वयितावच्छेदको भवत्येवेति दण्डेन पुरुषमानय दूत्यत्र दण्डस्य स्वसंयोगप्रागभावनाशस्संबन्धस्तुतौयार्थ: स च दगठसत्त्वासत्त्वदशायामप्यविकल इति गृहीतदण्डपुरुषव्याटत्ते रुद्देश्याया अन्वयितावच्छेदको भवति न चाचोपलक्षणटतीयाया अत्यन्ताभावसंबन्धश्चाथस्तथा च पुरुषे दण्डात्यन्ताभावो दण्डसंबन्धश्च प्रतीयत इति वाच्य दर्शितव्यापकानन्तरं दण्डसहितपुरुषानयने दर्शितवाक्यस्याप्रमाण्यप्रसङ्गात्पुरुष दण्डदण्डात्यन्ताभीवासत्त्वात् जटाभिस्तापस इत्यत्र जटाया विद्यमानतया तदत्यन्ताभावस्य तापसे बोधयितुमशक्यत्वाच्च । एवं काशिकायामुदाहृतमपि भवान् कमण्ड
Aho. Shrugyanam