________________
तृतीयाविभक्तिविचारः। त्यतम् । मणिकृदनुयायिनस्तु विशेषणमुपलक्षणमन्यादृशमेव तथा हि यचैकस्याव्यात्तेरनुयोगिता प्रतियोगिता चैकधर्मावच्छिन्ना तत्र व्याहत्तेरनुयोगितावच्छेदकत्वेन प्रतियोगितावच्छेदकौमूताभावप्रतियोगित्वेन प्रतीयमानत्वं विशेषणपदप्रतिनिमित्तं यथा दण्डी पुरुष इतिनिश्चयानन्तरमदण्डपुरुषव्यावृत्तो दण्डी पुरुष इति निश्चयो जायते तत्र पुरुषत्वेनैकेनावच्छिन्ना प्रतियोगिताऽनुयोगिता चैकस्याव्यात्तेः तदनुयोगिता दगडेनाप्यवच्छिद्यते तत्प्रतियोगितावच्छेदकीभूतदगडाभावप्रतियोगित्वं च दण्डे प्रतीयते दण्डी पुरुष दूत्यादौ दण्डः पुरुषविशेषणं यत्र तु प्रतियोगित्वानुयोगित्वयो.कधर्मावच्छिन्नत्वं तत्र पद्मत्वावच्छेदेन कुसुमान्यपवादिव्याटत्तेः प्रत्ययेऽपि कुसुमत्वं न विशेषणं पभस्येति । इदं तु विशेषणत्वमेकधर्मविशिष्टेोपरविशगस्य बोध्यं सामान्यतो विशेषणत्वं तु व्यावृत्त्यधिकरणतावच्छेदकतया व्यात्तिप्रतियोगितावच्छेदकोभूताभावप्रतियोगितया च प्रतीयमानत्वं यथो दण्डीत्यकस्या एव व्यायत्तेः प्रतियोगितावच्छेदकाभावप्रतियोगितयाऽधिकरणतावच्छेदकतया च दण्डो व्यावृत्तिबुद्दौ भासते सामान्यतो विशेषणत्वमपि दण्डस्य दगडी पुरुष इत्यत्र सम्भवति अत एव मणौ दण्डी पुरुष इति ज्ञानानन्तरं दगडवत्वदण्डव्यात्तिरवगम्यत इति प्रत्याय्य व्यावृत्त्यधिकरणता पुरुषस्य दण्डेनावच्छि द्यते न पुरुषत्वेनातिव्याप्तेरित्युक्त सामान्यतो विशेषणत्वं व्यतिरेकिधर्ममावस्य सम्भवति केवलान्वयिनि धर्मे व्यावृत्तर
Aho! Shrutgyanam