________________
२५१
विभक्त्यर्थनिर्णये । तस्य लक्षणे संबन्धे तौया भवतीतिसूत्रार्थाभिप्रायेण प्रत्यक्षालोकातीतार्थान्यप्रत्ययेनासत्त्वबोधनादिति मिथैरेतन्मतोत्तम्भकतयोक्तः । अन्ये तु विद्यमानस्योपरि मान्यत: काकादेरुपलक्षणत्वमित्यन्यथाविशेषणोपलक्षणलक्षणं तथा हि यस्यां बुद्धौ यो यत्र प्रकार: स तत्र विशेषणं विशेषणोपस्थापकमविशेषणमुपलक्षणं यथा काकेनोपस्थापित: संस्थानविशेषः देवदत्तगृहे विशेषणीभूय भासते तत्प्रतीतावुपलक्षणं काक: एवं जटयोपस्थापितो विषयभोगाभावः तापसविशेषणम् एवं काकेन देवदत्तगृहा इत्यत्र काकत्तानजन्यज्ञानविषया देवदत्तगृहा इति जटाभिस्तापस इत्यत्र जटाज्ञानजन्यज्ञानविषयस्तापस इति चान्वयबोध इति वदन्ति तदत्र मते ज्ञानजन्यत्तानं टतौयार्थ इति तत्र प्रतियोगिना घटेनाभाव इत्यत्र - तीयोऽनुपपत्तिः प्रतियोगिनोऽभावविशेषणानुस्थापकत्वात् तदुक्तं प्रत्यक्षमणौ प्रतियोगिनाऽभावे धर्मान्तरानुपनयनाच्चेति" । शिवादित्यमिश्रास्तु साक्षात्संवई विशेषणं परम्परासंबद्धमुपलक्षणं तदुक्तम् ।
व्यावर्तनीयमधितिष्ठति यदि साक्षादेतहिशेषणमतो विपरीतमन्यत् । दण्डौ पुमानिति विशेषणमन दण्डः पुंसो न जातिरनुदण्डमसौ च तस्येति ।
अनुदण्डं दण्डमनुगता जातिनं पुंसो विशेषणं किं त्वसौ तस्य दण्डस्येत्यर्थः उपरिचमत्काकादिकं परम्परासंबद्धमुपलक्षणमित्याहुः । तत्र जटाभिस्तापसो दण्डेन पुरुष इत्यत्र जटादण्डयोः साचात्संबद्धयोरुपलक्षणत्वानुपपत्तिरत एव मणौ साक्षात्संबन्धेऽप्युपलक्षणत्वादि
Aho! Shrutgyanam