________________
विभक्त्यर्थनिर्णये ।
२५३
प्रसिया विशेषणत्वसामान्याभाव इति । प्रतीयमानत्वगर्भं विशेषणत्वं व्यावृत्तेर्बुद्धौ न विषयः किं तु तदनुव्यवसायादौ काकवन्तो देवदत्तगृहा इत्यत्र देवदत्तख त्वशून्य गृहव्यावृत्तिः संस्थानविशेषवत्त्वावच्छेदेन प्रतीयते न तु काकवत्त्वं तदवच्छेदकत्वं तदसत्त्वकालेऽपि दर्शितव्यावृत्तः प्रतीतेश्च सत्त्वान्न्यूनवृत्तित्वादिति काको न विशेषणमपि तु व्यावृत्तिबुद्धिप्रकोरतया व्याटत्यवच्छेद कीपस्थापकतया वा व्यावर्त्त कतयोपलक्षणं तथा च व्यावृत्त्यधिकरणतानवच्छेदकत्वे सति व्यावर्तकत्वमुपलक्षणत्वमत एव मणौ प्रत्याय्य व्याहत्र्त्यधिकरणतावच्छेदकत्वे सति व्यावर्तकं विशेषणं तदन्यद्यावर्तकमुपलचणमित्युक्त व्याष्टत्त्यधिकरणताया अवच्छेदकत्वं खरूपसंबन्धविशेषः श्रत एव तदवच्छेदकत्वं संयोगादाविव तेन समं खरूपसंबन्धविशेष इति मिश्रैरुक्तं व्यावर्तकत्वं व्यात्तिबुद्धिप्रयोजक बुद्दिविषयत्वं व्याटत्त्यबोधकालेऽपि विशेषणत्वबुद्धिप्रसङ्गवारणार्थमुपातम् । अत एव मणौ व्याटत्युल्लेखानन्तरमेव विशेषणत्वबुद्धिरित्यक्त न च व्याटत्तेरबोधकाले तदवच्छेदकत्वाग्रहसम्भवेनैव विशेषणत्वबुद्धेर्न प्रसङ्ग इति वाच्यम् । शब्दादिना तदवच्छेदकत्वग्रह सम्भवात् । अत एवादण्डव्यावृत्त्यधिकरणतावच्छेदको दण्ड इति शब्दादवगमेऽपि तद्दत्यदण्डव्यष्टश्यप्रतीतेः सर्वसिद्धत्वादिन्द्रियासंनिकर्षादिना प्रत्यक्षादिसामग्रप्रभावादिति मिश्रैरुक्तं एवमौदृशविशेषणत्वाभावद्यावर्तकमुपलक्षणं वस्तु सत्युपलक्षणे प्रातिपदिकेनोपस्थापिते संबन्धमाचं तृतीयार्थः काकेन देवद
Aho ! Shrutgyanam