________________
विभक्त्यर्थनिर्णये । २३३ धनतया कण्ठादिक्रियायामिच्छा विस्तादिप्रयत्नश्चेतीयं रोतिर्वोत्पादे बोध्या अधौङो धातोरोदृशार्थवशाव्ययोगो यथा पञ्चाब्दिको ब्रह्मवटुर्वेदमधीत इत्यवानुपूवौविशेषविशिष्टो वर्णकलापो वेदः द्वितीयार्थः साध्यत्वाख्यं विषयत्वं साध्यत्वविषयत्वसंवन्धावच्छिन्नमाधेयत्वं वा विवृतावन्वेति एवं वेदविषयताकस्य वेदाधेयस्य वा विस्तादेरनुकूलश्रावणाश्रयः पञ्चाब्दिको ब्रह्मवटुरित्यन्वयबोधः । एवमुपाध्यायप्रतिवेशी बालो वा शुको वाऽधौत इति प्रयोग: सूपपादः । अर्थप्रतिपादकत्वेन ज्ञानं प्रतिपादकतासंबन्धनार्थवत्तया ज्ञानं वा फलं तदनुकूलश्रावणं चेत्यपरोऽधोङोर्थः भवति हि विवरणवाक्यश्रवणानन्तरं विद्रियमाण वाक्ये विवरणार्थकत्वबुद्धिः सा शाब्दबोध: ज्ञानसामान्यं वा शाब्दबोधपक्षे इति शून्यवाक्ये पचति पाकं करोतीत्यादौ पचतौत्यत्र तिङ: पचतिपदमर्थः धातुप्रयोग: साधुत्वार्थ: प्रणयेदितिवत् विवरणवाक्यस्य पाककृतिरर्थः प्रतिपादकतासंसर्गेण पतिपदोन्वेति यत्र चेतिसहितं वाक्यं पचतीति पाकं करोतीत्यर्थ इत्यादावित्युपस्थापितस्य पचतिपदस्य पाककृतरित्युपस्थापितायास्तादात्म्येनान्वितेऽर्थपदार्थे प्रतिपाद्यतासंसर्गेणान्वयः एवमर्थे शब्दप्रतिपाद्यताग्रहकाले शब्देऽप्यर्थप्रतिपादकत्वं गृद्यते ज्ञानमामान्यपक्षे तु शाब्दानन्तरं प्रतिपादकत्वमानससम्म-'. वान्नानुपपत्तिरिति । अर्थवत्ताया: शाब्दबोधस्यानुकूलत्वं च पदार्थस्मृतिद्वारा जानसामान्यस्यानुकूलत्वं स्मतिशाब्दादिद्वारा श्रावणस्येति । एवं शास्त्रमधीत इत्यत्र
Aho! Shrutgyanam