________________
२३२
तृतीयाविभक्तिविचारः । निर्गम: यथा एकेन पुरुषव्यापारेण कमलपत्राणां स.. चिभेदने प्रथमपत्रभेदनकाले न द्वितीयपत्रभेदनं प्रथमपत्रस्य प्रतिवन्धकत्वादिति जरायुजशरीरस्य शरीरान्तरेऽन्तरवयवावच्छेदेन य: संयोगस्तत्प्रतिद्वन्द्वी विभागो व्यापारश्च पूडोऽर्थः प्रतिइन्द्रित्वं तु नाशकतावच्छेदकवैजात्यं सूतिमारुतसंयोगजक्रियाविशेषजन्यता. वच्छेदकतया सिद्धं तद्वैजात्यवान् विभाग: फलविधया:यस्तेन जरायुजशरीरस्य धातुनाऽनभिधानात्षङो न सकर्मकत्वहानि: वैजा त्यपरिचयार्थ जरायुजशरीरादिकथनं तेन व्याधिवशाझेदकादिप्रसवे प्रसूत इति प्रयोगवारणाय जरायुजशरीरोपादानं बालस्य क्रोडात् क्रोडान्तरगमने प्रसत इति प्रयोगवारणाय शरीरेऽन्तरवयवावच्छेदेनेत्युक्तं तरुः फलानि सते वसुधा भटान् सूते सहस्रपात् शनिं प्रासूतेत्यादौ घूङ उत्पत्तिस्तदनुकूलव्यापारश्चार्थ इति तदुपपत्तिः एवं प्रकृते लक्ष्मणवृत्तिविजातीयविभागानुकूल व्यापाराधिकरणसूतिमारुतकालिकस्यातीतस्य शत्रुघटत्तिविजातीयविभागानुकूलव्यापारस्याश्रयः सुमित्रत्यन्वयबोधः । वैशम्पायनेन सह वेदं जैमिनिरधोत इत्यत्राघौङोऽययमुच्चारणं तदनुकूलश्रावणं चेत्येकोऽर्थः उच्चारणं तु वर्णोत्पत्त्यनुकूलतयोपलक्षितो विवृतादिः प्रयत्नः म तु वितत्त्वादिनैव धात्वर्थे निविशतेऽतो न सकर्मकरवहानि: लिप्यादिना वर्णज्ञानादुच्चारणोऽधीत इति प्रयोगवारणाय श्रावणमुक्तं श्रावगास्य फलतानविधया विवतादिप्रयोजकत्वं वर्णस्य फलस्य साधनतया कण्ठताल्वादिसंयोग तत्मा
Aho! Shrutgyanam