________________
विभक्त्यर्थनिर्णये ।
२३१
मह पचतीत्यत्रापि समानदेशत्वं समानकालिकत्वं च सहार्थतेन देशकालयोर्वेषम्ये न तथा प्रयोगः । सूपेन सहौदनं पुत्रेण सह पचति पितेत्यत्र द्वेधा सहार्थान्वयस्तेन पुत्रकर्तृकसूपकर्मता कपाक्रसमानदेशकालिकौदन कर्मता कपाकसमा नदेशकालिक सूप कर्मता कपाकसमा - नदेशकालिकोटनकर्मकराकृतिमान् पितेत्यन्वयवो - धः । ननु "प्रासोष्ट शत्रुघ्नमुदारचेष्टमेका सुमित्रा सहलक्ष्मणेने"त्यत्र लक्ष्मणप्रसवसमानकालिकत्वं शत्रुघ्नप्रसर्व वाधितमिति कथं सहार्थान्वयः न चात्र स्थूलकालप्रथमजातो लक्ष्मणादिदेव ग्राह्य इति न समानकालिकोत्वान्वयानुपपत्तिरिति वाच्यम् । तथासति " प्रासोष्ट बीभत्समुदारचेष्टमेका पृथा वायुसुतेन साकमि " त्यादिप्रयोगप्रसङ्गात् । प्रथमजातभौमा दिखरूप कालमादाय समानकालिकत्वान्वयसम्भवादिति चेत् प्रकारान्तरेणाव समानकालिकत्वसम्भवस्तथा हि सूतिमारुतोऽच कालो बोध्यः एक एव सूतिमारुतोऽयमजप्रसव हेतुः सूतिमारुतस्य प्रसवप्रयोजकत्वमुक्तं याज्ञवल्क्येन ।
नवमे दशमे मासि प्रबलैः सुतिमारुतैः । निस्साय्यैते बोण इव यन्त्रच्छिद्रेण स ज्वरः ॥
-
Aho ! Shrutgyanam
-
इति न च बहुवचनेन भूयसां सूतिमारुतानां प्रसव प्रयोजकत्वमुक्तं कथमेकमूर्तिमारुतः कालत्वेनोपादीयत इति वाच्यम् । एककालवर्त्तितया हि मारुतानामेकत्वमिष्यते य एव सूर्तिमारुता लक्ष्मणप्रसवे त एव शचुनप्रसवे प्रयोजका न तु भिन्नाः कल्पनागौरवात् लच्मपनिगमकाले लक्ष्मणस्य प्रतिबन्धकतया न शत्रुघ्न
-