________________
२०६
तृतीयाविभक्तिविचारः ।
पापानुगुणत्वं न धातोर्न वा तृतीयाया अर्थ इति न शाब्दबुद्धिविषयः किं तु शाब्दानन्तरं मानान्तरगम्यं दा स्तु दानमर्थः तत्खरूपसत्पापानुगुणमिहापेचितमचैवात्मनेपदं साधु तृतीयायाः संप्रदानत्वमर्थः दानसंप्रदानत्वयोः स्वरूपं चतुर्थीविवरणे वच्यते एवं दासीसंप्रदानकदानकर्ता कामुक इति शाब्दबोधः पापनिनुगुणदानेतु भार्यायै संयच्छतीति चतुर्थोपरस्मैपदयोरेव साधुत्वमिति । फलोपहितार्थक धातुयोगे कालाध्यशब्दात्तृतीयेति ज्ञापयितुम् । “अपवर्गे तृतीये "त्यनुशासनम् । अपवर्गे फलप्राप्तौ सत्यां कालाध्वशब्दाभ्यामत्यन्तसंयोगे ऽर्थे -- तया भवतीत्यर्थक अपवर्गः फलं यदिच्छा प्रयोज्याचारविषयः क्रिया तत्फलं प्राप्तिस्तदुपधानं तथा च यत्र फलोपहितो धात्वर्थस्तवात्यन्तसंयोगार्थिका तृतौया अत्य न्तसंयोगः कालिकं दैशिकं वा व्यापकत्वं द्वितीया विवरणोक्तं स्मर्तव्यम् । एवमन्हा क्रोशेन वाऽनुवाको ऽधीत इत्यत्राध्ययनमुच्चारणमनुसंधानं वा धात्वर्थः दृढसंस्कारोपहितमध्ययनमिह धातुनोपस्थाप्यते तत्र धा त्वर्थे ततौयार्थोऽत्यन्तसंयोगो ऽन्वेति तथा चाहयपकस्य क्रोशव्यापकस्य वा दृढसंस्कारोपहिताध्ययनस्य कर्मानुवाक इति शाब्दबोधः । दैशिकव्यापकत्वं कर्तघटितपरम्परासंसर्गावच्छिन्नमिह बोध्यमिति । यत्र फलोपहिता न क्रिया तच मासमधीतोऽपि नाम्यस्तो ऽनुवाक इति द्वितीयैव प्रमाणम् । अत्र फलानुपहितमेवाध्ययनादिकं नात्वर्थ: अत्यन्तसंयोगमात्रं तृतौयार्थः अपवर्गस्तु व्यञ्जनागम्यः दिवसेन भवानयुद्धे -
Aho ! Shrutgyanam