________________
विभक्त्यर्थनिर्णये ।
२०५
केन सिहमात्मनेपदम् । श्राध्याने तु मावा मातरंवा संजानातीत्येव प्रमाणम् । के चितु आध्याने मातरंमातुर्वा सञ्जानातीत्येव साधु " अधीगर्थे " ति सूत्रेण वि हितया षष्ट्या तृतीयाया बाधात् अत एव कृद्योगष
तृतीयाया बाधः पितुः संज्ञानमित्यादावित्याहुः । तन्न विचारसहं षष्ट्या तृतीयाया बाधे द्वितौयाया अपि बाधापतेर्युक्तस्तौल्यात् पितुः संज्ञानं संज्ञा वेत्यव वृत्तिकारमते कुद्योगे कर्मार्थकषष्ट्या कर्मप्रत्ययस्य हितीया तृतीयादेर्वाध इति नाव तृतौयादेः प्रसक्तिरिति । हृविकर्मण्यपि तृतीयां ज्ञापयति" तृतीया च होश्छन्दसी” ति सूत्रं छन्दसि होर्हवेः कर्मणि तृतीया स्याच्चकारादfeatusपीत्यर्थकं यवाग्वा जुहोति यवागूं जुहोतीत्यादौजुह तेर्वन्हिसंयोगफलक खाहाकरणकप्रक्षेपोऽर्थस्तत्र वन्हि संयोगान्वय्याधेयत्वस्वरूपं कर्मत्वं तृतीयाद्वितीययोरर्थः तथा च यवागूवृत्तिवन्हिसंयोगफलकखाहाकरणकप्रक्षेपकर्तत्वं वाक्यार्थः लोके तु घृतं जुहोतीत्यादौ न तृतीयेति । "अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया स्यादिति दास्या संयच्छते कामुक इत्यत्र तृतीया अशिष्ट वेदनिषिकर्ता, व्यवहार इति निमित्तसप्तमौ तथा च वेदनिषिद्यव्यवहारप्रयोजक श्चे हाणोऽर्थस्तदा चतुर्थ्यर्थे तृतीया भवति श्रत एव दाणश्च सा चेच्चतुर्थ्यथे" इत्यनुशासनेन सम्पूर्व कांदा आत्मनेपदं भवति यदि चतुर्थ्यर्थकथा तृतीयया योगो भवतीत्यर्थकेनात्मनेपदं साधयता संप्रदानत्वार्थिका तृतीयाऽपि साध्यते । अत्र वेदनिषिव्यवहारप्रयोजकत्वं वेदनिषिद्दत्वं वा
Aho ! Shrutgyanam