________________
२०४
तृतीयाविभक्तिविचारः। पादकतया चकार: सार्थक इति वाच्यं क्वाचित्ककार्योपपादकत्वे बीजविरहेण विशेषेण कार्य योपपादकतयैवैच्छिकविकल्पार्थकस्य चशब्दस्य सार्थकत्वसम्भवात् । एबमौरक्षान्वा दोव्यति मल्य इलान दीव्यते: क्रीडा सा तु सुखव्यापारोभयं सुखमेव वाऽर्थः तृतीयाहितीययोः पातस्वरूपो व्यापारोऽर्थः तथा चाक्षजन्यपातजन्यस्य सुखानुकूलव्यापारस्य सुखस्य वाऽनुकूलकतिमान्मत्स्य इति शाब्दवोधः । न चात्न धात्वर्थफले सुख प्राधेयत्वस्वरूपं कर्मत्वं हितोया बोधयितुमौष्ठे सुखादावक्षाधेयत्वस्य बाधादिति द्वितीयाया अपि व्यापारोऽर्थः अत एव देवना अक्षा इत्यत्र व्यापाराश्रयस्य करणस्य ल्युटाऽभिधानान्न व्यापारार्थिका द्वितीया । एवमक्षा दोव्यन्ते देवनौया वेत्यत्र तिङा व्यापारस्य तदाश्रयस्यानीयराऽभिधानान्त्र व्यापारार्थिका करणतीया "अनभिहित इति निषेधादिति । द्वितीयायाः करणत्वमिव तृतीयाया अपि कर्मत्वमर्थ इत्यावेदयितुं "संजोऽन्यतरस्यां कर्मणी" ति सूत्रम् । सम्पूर्वस्य जानातेः कर्मणि तिौया द्वितीय वा स्थादित्यर्थक पित्रा पितरं वा संजानौत इत्यत्न संजानाते: संज्ञानमसाधारणधर्मेण ज्ञानमर्थस्ततीयादितौययोविषयतास्वरूपं कर्मत्वमर्थः अथ वाधेियत्वस्वरूपमेव कर्मत्वमिहाप्यर्थः विषयतायाः पूर्वोक्तय त्या धात्वर्थफलत्वावश्यकत्वात् तथा च पितृविषयताकं पितृदृत्तिविषयताकं वा ज्ञानं वाकयार्थः सञ्जानौत इत्यत्र "संप्रतिभामनाध्याने इत्यनशासनेन संपूर्वकात् प्रतिपूवकाच्च च श्रात्मनेपदं भवति यद्याध्यानं स्मरणं नार्थ दू
Aho! Shrutgyanam