________________
। विभक्त्यर्थनिर्णये । दिजनकत्वं स्वनिष्ठस्पन्दज्वलनहारत्युक्तं तथा च दण्डेन घट इत्यत्र सव्यापारकहेतुत्वस्य तृतीयार्थतया तस्य च नामार्थान्वयेन करगा त्वस्य कारकत्वहानिरिति चेन्न व्यापारस्य करणटतीयार्थतया तस्य च जन्यत्वसंसर्गेगा धात्वर्थ एवान्वयेन कारकत्वानपायात् हेतुत्वमर्थस्तच साक्षात्परम्परासाधारणमित्यादिकं वक्ष्यते । द्वितीयार्थोऽपि व्यापारो दिवोऽन्वेतौति ज्ञापयितुं"दिवः कर्म चेति सूत्र" दिवः साधकतमं कर्म करणं च भवतीत्येतदर्थकं चकारः संज्ञाहयार्थक: अत एव मनसादेव इत्यत्न करणसंज्ञाप्रयुक्ता तृतीया कर्मसंज्ञाबलात्कर्मोपपदप्रयुक्तोऽणप्रत्ययः"मनसः संज्ञायामि"त्यनुशासनेन तृतीयाया अलुक एवमक्षरक्षान्वा दीव्यतीत्यु भयविधप्रयोगः साधुः के चित्तु दिवः साधकतमे करणसंताप्रयुक्तकायें देवना अक्षा इत्यत्र ल्युट कर्मसंज्ञाप्रयुक्तं तु अक्षादीव्यन्त इत्यत्र लः देवनौया इत्यादावनीयरादिः प्रत्ययः अर्दीव्यन्तीत्यत्र च संज्ञाहयप्रसक्तौ परया तृतीयया हितौयाया बाध इत्यक्षान्दोव्यतीति न प्रमाणमिति वदन्ति । तन्न विचारसहं तृतीयाया द्वितीयाबाधकत्वे बौजौभूतानुशासनविर हात् प्रत्युत परया कर्मसंज्ञया तत्प्रयुक्तद्वितीयादिकायण वा करणसंज्ञायास्तत्प्रय - तटतीयादिकार्यस्य वा बाधापत्तेः न चैवमेवास्तु अक्षान्दीव्यतीत्येव प्रमाणं न चार्दीव्यतीति दीव्यतियोगे तृतीयाहितीयोभयप्रयोगोऽसाधुरेवेति वाच्यं तथा सति "दिवः कर्म चे"ति सूचे चकारवैयर्थ्यप्रसङ्गात्। न च क्काचित्कसंज्ञाहयप्रयुक्तस्य ल्पुटकर्माख्यातादिकायस्योप
Aho! Shrutgyanam