________________
विभक्त्यर्थनिर्णये।
२०१ मंवान् तृतीयाप्रत्ययेनोपस्थाप्यः एतेन सकलव्यापारमाधारण करूपाभावेन न शक्त्यैक्य तत्तद्रूपेण शक्तिखोकारे नानार्थता युगसहस्रेणाप्यग्रहश्चेति निरस्तम् । यद्याधारादिव्यापारो धातुनाऽनभिधीयमानः क्रियाजनकतया विवक्षितस्तदाऽधारादिकारकगणः करणमेव । तदाहुः ।
क्रियायाः परिनिष्पत्तियंद्यापारादनन्तरम् । विवक्ष्यते यदा यत्र करणं तत्तदा मतम् ॥ .. वस्तुतस्तनिर्देश्यं न हि वस्तु व्यवस्थितम् । स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः ॥ वस्तुव्यवस्थितिविरहेणानिर्देश्यत्वादेव विवक्षाधीनत्वं करणास्येति कारकान्त पौयमेव गतिरिति विवचाऽधौनत्वमपादानादौनामत एव विवक्षातः कारकाणि भवन्तीति प्रवादः । अत्र व्यापाराश्रयः करणटतौयार्थ इति शाब्दिकाः । तन्न विचारसहं व्यापारस्य शकावे लाघवात् तदाश्रयस्य तथात्वे गौरवात् किं च व्यापारस्य धात्वर्थे जन्यत्वेन संसर्गेण साक्षादन्वयस्तदाश्रयस्य तु खव्यापारजन्यत्वसंसर्गेण परम्पराऽन्वय इति वह्निना पचतीत्यत्र टतौयार्थ ऊर्ध्वज्वलनव्यापारो जन्यत्वसंसर्गेण पाकऽन्वेति वचूर्वज्वलनजन्यपाककृतिरित्यन्वयबोधः । अनुभवेन स्मरति योगेन वगच्छति चक्षुषा पशयतीत्यादी दृतीयार्थेषु संस्कागपूर्वसंनिकर्षेषु प्रकृत्यर्थानांजन्यत्वसंसर्गेणान्वयः श्रोत्रेण शृणोतीत्यत्र तृतीया शब्दावच्छिन्नसमवाय सविशेषणे होतिन्याय न श्रोबस्य जन्यतासंसर्गेण शब्दोन्वयः पर्यवस्यति यथा रूपं चक्षषा पश्यतीत्यत्र संयोगे क्वचिज्जन्यत्वातिरिक्तसंसर्गेणापिट
આ પુસ્તક શ્રી જૈન મુની
Aho ! Shrutgyanam