________________
२००
तृतीयाविभक्तिविचारः। मणि कर्ता स णावि"त्यत्राणौत्यस्य ज्ञापकस्य सत्त्वात् यदि च स्वतन्त्र एव कत शब्दार्थस्तदा सूत्रेणीत्यस्य वैययं स्यात् णिजथव्यापाराश्रयस्यास्वतन्त्रत्वादेव तत्र कतत्वाप्रसक्तः तथा च प्रयोजकोऽपि कर्ता भवति तत्र कमंत्वनिषेधकतयाऽगौत्यस्य सार्थक्यं तेन गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्र इत्यत्र देवदत्तपदान्न हितीयेति । एवं प्रयोजकस्य णिजथव्यापाराश्रयस्य कर्तृत्वेऽवगते कत करणयोरित्यनेनैव प्रयोजकवाचिपदात्ततीयेति । अत एव तत्र पञ्चविधः कर्तेत्यत्र प्रयोजकस्वतन्त्रकर्मकतणामेव ग्रहणमिति विविध एव कर्ताऽभिहितत्वानभिहितल्वे स्वन्त्रप्रयोजकयोरवान्तरधर्मी न विमाजकोपाधौ इति कौण्डभद्दे सक्तम् । करणपदसंकेतग्राहकमनुशासनं “साधकतमं करणमि"ति साधकतमत्वं च फलायोगव्यवच्छिन्नव्यापारवत्वं साधकस्य व्यापारस्य साधकं करणमिति ज्ञापयन् तमपप्रत्ययः फलायोगव्यवच्छित्तिं व्यापारे जापपति तथा च फलोपहितव्यापारहारा क्रियाया जनकं करणमिति तत्र फलोपहितव्यापारस्तुतौयार्थः फलोपधानं बिशेषणमुपलक्षणं वेत्यन्यदेतत् । तत्र साक्षाज्जनकन करणमिति तण्डुलविक्लित्त्यौदनं पचतीति न प्रयोगः तण्डलविक्लित्तरोदनोत्पत्ति प्रति साक्षाज्जनकत्वात् फलानुपहितव्यापारकमपि न करणमिति शूर्पण तण्डुलं पचतौति न प्रयोगः सूपव्यापारस्य तण्डलविक्लित्त्यनुपधायकत्वात् व्यापारस्तु क्रियाजनकतावच्छेदकत्वेन धर्मणोपलक्षणेनानुगतौकृततत्तद्ध
Aho ! Shrutgyanam