________________
१९८ र तृतीयाविभक्तिविचार। त्तिभिन्नविषयत्वं तिङ इव तृतीयाया अर्थः तस्य प्रतिबिम्ब तथाविधचाक्षुषे धात्वर्थे विशेषणतया प्रतियोगितासंसर्गेणान्वयः एवं मुखविषयता प्रतियोगितथाविधचाक्ष षमित्यन्वयबोधः चैतन्येन प्रतिबिम्ब्यत इत्यत्र 'प्रकारत्वं तृतीयार्थ: तस्य प्रतियोगितासंसर्गेण धात्वर्थभमे विशेषणतयाऽन्वयः एवं चैतन्यप्रकारताप्रतियोगी भ्रम इत्यन्वयवोधः । घटेन नश्यत इत्यत्र घटो नश्यतीत्यादौ तिङ इव तृतीयायाः प्रतियोगित्वमर्थस्तस्य निरूपितानुयोगितासंबन्धेन धात्वर्थे नाशे विशेषणतयाऽन्वयः एवं घटप्रतियोगिताको नाश इत्यन्वयबोधः वङ्गिना दीप्यत इत्यत्र भाखररूपं भास्वररूपवतेजसंयोगनियताज्यवसंयोगो वा दीप्यतेरर्थः मणिना दीप्यत इत्यव भास्वररूपवत्तेजःसंयोगनियतावयवसंयोगो दीप्यते रथस्तदन्वयिसमवायावच्छिन्नसमवायघटितसामानाधिकरण्यावच्छिन्नमाधेयत्वं वा तृतीयार्थः चैत्रेण शथ्यत इत्यत्राधःस्वावयवावच्छिन्नसंयोगानुकूलव्यापारः शयतेरथस्तदनुकूलप्रयत्नः हतीयार्थः यदि च तादृशसंयोग एव शयतेरर्थः व्यापारी नार्थ: अत एव व्यापार नष्टेऽपि तादृशसंयोगे विद्यमाने शय्यत इति लट्प्रयोगस्तदा तथाविधमाधेयत्वं तौयार्थ आधेयत्वेनाधेयत्वस्य शक्यत्वेऽपि संसर्गविशेषावच्छिन्नाधेयत्वीयस्वरूपसंसर्गेण धात्वर्थेऽन्वयोपगमान्नानुपपत्तिरिति । अत्र प्रयत्नत्वस्य जातितया तदिशिष्टे ततौयायाः शक्तिराधेयत्वादौ लक्षणा यदि चाधेयत्वत्वविषयत्वत्वप्रकारलत्वप्रतियोगित्वत्वान्यखण्डोपाधयस्तदा तत्तविशिष्टेऽपि त
Aho! Shrutgyanam