________________
। विभक्त्यर्थनिर्णये। ज्ञानसम्भवात् प्राथमिकज्ञानं प्रतिविम्बः तविषयत्वमाख्यातार्थो मुख एव न त्वादशैं अत एव मुखं प्रतिविम्बते न तु दर्पण इति प्रयोगोपपत्तिः यदि चादर्शजानं विनापि दर्शितविशिष्टवैशिष्ट्यबोधयोरसम्भव एवेति प्राथमिक ज्ञाने ऽप्यादर्शो विषय एवेति इदं मुखमयमादर्शश्चेति ममूहालम्बनचाक्षुषमेव प्रथमतो जायते तत्कथमुक्तप्रयोगोपपत्तिरिति विभाव्यते तदा स्वविषयेत्यत्र खविषययत्किञ्चिद्यक्तासंबन्धित्वं वक्तव्यं तेनादर्शस्य स्वविषयत्वेऽपि तदृत्तिचक्षुःसंयोगस्य प्रयोजकत्वे मुखप्रतिबिम्वस्य न तथावहानिः एवं प्रतिविम्बते इत्यत्र प्रयोजकचक्षःसंयोगसंबन्धित्तिभिन्नविषयत्वमाख्यातार्थो वाच्यस्तत एव दर्शितप्रयोगोपपत्तिः आदर्शादर्शत्वादिविषयतानां तादृशभिन्नत्वाभावान्मुखमुखत्वादिविषयतानां तादृशभिन्नत्वात् एवं मुखं प्रतिबिम्बते इत्यत्र तिर्थविषयत्वं तादृशभेदेन विशिष्टमुपलक्षितंवेत्यन्यदेतत् । एवं धात्वर्थचाक्षुषमपि तादृशचक्षःसंयोगजन्यत्वेन विशिष्टमुपलक्षितं वेत्यन्यदेतत् उपलक्षणतापक्षेऽपि विषयत्वत्वेन चाक्षुषत्वेन तादृशौ व्यक्तिः प्रतीयत इति नातिप्रसङ्गः बुद्धौ चैतन्यं प्रतिविम्बते इत्यत्र प्रतिबिम्बो भ्रमो धात्वर्थः प्रकारत्वं तु तिर्थः बुद्धिपदोत्तरसप्तमौ तु बुद्धिगतं प्रयोजकव्यापारं वाच्छ्यमभिधत्ते तस्य प्रयोजकतासंवन्धेन धात्वथैवमेऽन्वयः एवं बुदिखाच्छ्यप्रयोज्यभ्रमप्रकारश्चैतन्यमिति शाब्दबोधः यथा च व्यापारस्सप्तम्यर्थस्तथा सप्तमीविवरणे वक्ष्यते । एवं मुखेन प्रतिबिम्व्यते इत्यत्र प्रयोजकचक्षुःसंयोगसंबन्धे
Aho! Shrutgyanam