________________
१९६ र तृतीयाविभक्तिविचारः । यते इत्यादौ तौयाया आधेयत्वमर्थः तच्च निरूपितत्वेन संबन्धेन प्रकृत्यर्थविशेषितं स्वरूपसंसर्गेण धात्वर्थ विशेषणतयाऽन्वेति शोभया प्रतिभायते प्रकाश्यते वा मोदकेन स्वद्यते रुच्यते वेत्यादौ विषयत्वं तौयार्थस्तञ्चाधेयत्वसंसर्गेण प्रकृत्यर्थविशेषितं प्रतियोगितासंसर्गेण धात्वर्थं जाने इच्छायां च विशेषणतयाऽन्वेति जानमावार्थकयो: प्रतिभातिप्रकाशत्योरिच्छामावार्थकयोः स्वदतिरोचत्योविषयत्वार्थककर्ट प्रत्ययेनैव सह सोकाश्त्वात् । प्रतिबिम्बत इत्यादौ प्रतिबिम्बो धात्वर्थः स च स्वविषयासंबद्धत्तिचक्षुःसंयोगप्रयोज्यचक्षुः संयोगजन्यचाक्षुषप्रत्यक्षं तादृशचक्षुःसंयोगः क चित्प्रतीघाततया प्रयोजकः प्रतिधातस्तु देशान्तरसंयोगजनिकायाः क्रियाया जनकः संयोगः यथा सुखचक्षुःसंयोगजनक्रियाजनको दर्पणचक्षुःसंयोगः क चिन्मार्गसंयोगतया गन्तव्यसंयोगप्रयोजक: यथा स्फटिकाधस्थितपद्मरागचक्षुःसंयोगप्रयोजकः स्फटिकचक्षुःसंयोगः एतेन प्रतिहतचक्षुःसंयोगजन्यत्वमा न चाक्षुषविशेषणमिति तत्र तन्तुचक्षुःसंयोगाधीनपटचक्षुःसंयोगजन्यगाटचाक्षुषव्युदासाय स्वविषयासंबत्तित्वं प्रथमचक्षुः संयोगे विशेषणं स्वविषयासंबद्धस्तु स्वविषयसंबन्धित्वावच्छिन्नप्रतियोगिताकान्योन्याभाववान् बोध्यः तेन तन्तुषु तत्तन्तुभेदसत्वेऽपि न क्षतिः ईदृशं चाक्ष षमादर्शाद्यविषयकमिदं मुखमित्याकारकमपि प्रतिबिम्ब एव ईहशमेव मुखावगाहित्तानं प्रथमतो जायते तत एवाद” मुखमिति मुखवानादर्श इति विशिष्टवैशिष्ट्यावगाहि
Aho! Shrutgyanam