________________
१९२
द्वितीयाविभक्तिविचारः ।
त्वस्य ज्योत्स्नानिष्ठस्याध्ययनत्वे विरहेऽपि हित्रदिनाध्ययनस्थले न दर्शितप्रयोगः धर्मस्यान्वयितावच्छेदकप्रतियोगिक सम्बन्धेनान्वयोपगमात्तादृशस्य
मासवृत्य
भावप्रतियोगितावच्छेदकत्वस्य सत्वे विरहात् सत्ववतो दिदिनाध्ययनस्य सत्तायां न दर्शितप्रयोगः एवं क्रोशं कुटिला नदीत्यच क्रोशनृत्यभावप्रतियोगित्वस्य संयोगावच्छिन्नप्रतियोगित्वीयनिरूपितत्वसम्बन्धेनावच्छेदकत्वेऽन्वयः अवच्छेदत्वादेस्तु प्रदर्शित रीत्याऽन्वयो वोध्यः कुटिलत्वं तु तिर्यग्गमनजन्यावयवसंयोगसामामाधिकरण्यं तदभावः सरलत्वं न च तिर्यग्गमनवदंवयवसमवेतत्वं तत् तथा सति कुटिलदण्डादौ कौटिल्यानुपपत्तेः तदवयवे तदा तिर्यग्गमनस्याभावात् सामानाधिकरण्यमेककालावच्छिन्नं बोध्यं तेन पूर्वं कुटिलेऽनन्तरं सरले दण्डे न कौटिल्यप्रतीतिव्यवहारौ रूपादी कौटिल्यप्रतीतिव्यवहारयोरभावात् सामानाधिकरण्यंद्रव्यत्वविशिष्टं बोध्यमिति वस्तुतस्तु मासमधीते इत्यव मासात्मककालिकविशेषणता वच्छिन्नमाधेयत्वं द्वितीयार्थः तन्मासनिरूपितमध्ययनेऽन्वेति हिवदिनाध्ययनेन निरुक्तमाधेयत्वमिति न तव दर्शितप्रयोगः एवं क्रोशं कुटिला नदीत्यच क्रोशत्वमध्वपरिमाणविशेषः तद्वान् क्रोशः क्रोशत्वव्यापक संयोगावच्छिन्नमाधेयत्वं द्वितौयार्थः तत् क्रोशनिरूपितं कुटिलेऽन्वेति कुटिलस्य तादात्म्येन नद्यामन्त्रय इति मासं कल्पणौत्यव कल्याजनकः कल्याणशब्दार्थः कल्याणजनकत्वविशिष्टे मासौयस्य व्यापकत्वस्य निरुक्ताधेयत्वस्य वाऽन्वयोपगमा
Aho ! Shrutgyanam
V