________________
विभक्त्यर्थनिर्णये ।
१९१
नचापेर्योगे द्वितौयाविरहे संज्ञा वैयर्थ्यमिति वाच्यं संज्ञाया दर्शितस्थले षत्वाभावफलकत्वात् उपसर्गसंज्ञापबादकत्वादिति । " कालाध्वनोरत्यन्तसंयोगे" इति सूत्रंकालात्रयवाध्वावयववाचिशब्दाभ्यामत्यन्तयोगेऽर्थे द्वितीया स्यादित्यर्थकम् अत्यन्तसंयोगोऽवच्छिन्नत्वं तवावच्छेदको देशविधया कालविषया द्विविधो द्विविधमपि तद्यापकत्वपर्यवसितं व्यापकत्वमभावाप्रतियोगित्वं तत्राभावः प्रतियोगित्वं खण्डशो द्वितीयार्थः यदि चावच्छेदकत्वं विना व्यापकत्वमतिप्रसक्तमिति मन्यते तदावच्छेदकत्वमपि द्वितीयार्थे निविशते एकपदार्थानामपि व्युत्पत्तिवैचिच्येण परस्परान्त्रयोऽभ्युपेयते व्यापकतावच्छेदकः संबन्धो दैशिकः संयोगादिः कालिकस्तु विशेषणताविशेषः तथा चायं मासमधीत इत्यत्र मासस्याधेयत्वेन संबन्धेनाभावे तस्य प्रतियोगितायां तस्याः कालिकसंबन्धावच्छिन्न प्रतियोगित्वोयनिरूपितत्व संबन्धेनावच्छेदकत्वे तस्यान्वयितावच्छेदकतावच्छेदकसंसर्गावच्छिन्नावच्छेदकत्वीय स्वरूप संसंग विच्छिन्नप्रतियोगितयासंबन्धेनाभावे तस्य धर्मे तस्यान्वयितावच्छेदकौयेनाध्ययनत्व संबन्धेनाध्ययनेऽन्वयः एवं मासव्यापकाध्ययनकर्तृत्ववानय मित्यन्वयबोधः प्रतियोगिताया निरूपितत्व संसर्गे कालिकसंवन्धानुप्रवेशात् संयोगेन मासवृत्यभावप्रतियोगित्वस्याध्ययने सत्वेऽपि नान्वयबोधानुपपत्तिः । अवच्छेदकत्वस्य प्रतियोगिता संसर्गेऽन्वयितावच्छेदकसंसर्गस्यानुप्रवेशात् संयोगेन ज्योत्स्नावतः प्रासादादेर्मासवृत्यभावप्रतियोगितायाः संयोगसंसर्गावच्छेदक
Aho ! Shrutgyanam
-