________________
१९०
द्वितीयाविभक्तिविचारः। थामूतोऽपिशब्दः समुच्चयमेककर्ट कत्वादिक वाक्यार्थीभूतं द्योतयति एकस्य सम्बोध्यस्य यो: क्रिययोः कटत्वान्वये एकक कत्वं शम्भोरेकस्य कर्मत्वान्वयएककर्मकत्वं वाक्यार्थतयाऽवगम्यते संभावनान्ववसर्गार्थकप्रत्ययस्य प्रकृतिधातोश्च प्रातिपदिकत्व विरहात् गहाविषयधातोः समुच्चयोर्थकवाक्यस्य च पर्यदासन - त्याऽर्थवत्वाभावेन च प्रातिपदिकत्वविरहान्न ततो द्वितौया वस्तुतस्तु निरर्थकत्वादेव न द्वितीया सम्भावनाद्यर्थस्य पदान्तरेण लाभे निरर्थकत्वसंभवात् यदि च समुच्चय एककालिकत्वं तच्च न वाक्यार्थः दर्शितस्थले कालवाचकशब्दाभावात् अत एव विभिन्न कालिको गमनत्यागावाहाय काशी ब्रज त्यजापौति न प्रयोग इति समच्चये कुती न हितोया निरर्थकत्वप्रसक्तेरसंभवादिति विभाव्यते तदाऽपि समुच्चयान्वयिक्रिययोर्वाचकधातोरप्रातिपदिकत्वान्न ततो द्वितीया वस्तुतस्तु एककालिकस्वस्य समच्चयस्य न द्योतकोऽपिशब्दस्तस्य पदान्तरेणालाभे द्योतनासम्भवात् किं तु वाचक एव तथा चापिशब्दन समुच्चयस्याभिधानात् निरर्थकत्वादेव न हितौया अत एव रसो गन्धोऽपि मनोहर: पनसे इत्यत्र रसादिशब्दान्न द्वितीयाऽपिशब्देन समुच्चय बोधने निरर्थकत्वसम्भवात् अत एव कर्मप्रवचनीया द्योतका दितीया वाचिकति न च वैपरीत्यमेवास्त्विति वाच्यं तथा सति निरर्थकहितौयाऽभ्युपगमे सुसिक्तं शम्भोरित्यत्र द्वितीयापत्ते: अत एवार्था द्योतकाधियोगे निरर्थकहितौयायाः साधुतायां बाधिकायामधिवचनत्तातमित्यत्र विवदन्ते तहिदः
..
Aho! Shrutgyanam