________________
१८६
द्वितीयाविभक्तिविचारः ।
मधिके होने च द्योत्ये उपेति प्राक्संज्ञं स्यादित्यर्थकं तथा चोपहर सुरा इत्यत्रापि द्वितीयाया होनत्वमर्थः शेषं पूर्ववत् अधिकेऽर्थे कर्मप्रवचनीययोगे सप्तमो वच्यते । "लक्षणे त्थंभूताख्यान भागवीप्सासु प्रतिपर्यनवः" इति सूत्रं भागान्तेष्वर्थेषु योत्येषु वीप्साप्रयोगे च प्रत्यादयः प्राकसंज्ञकाः स्युरित्यर्थकं तथा च वृक्षं प्रति परि अनु वा द्योतते विद्यादित्यव लक्षणं द्वितीयार्थस्तच्च धात्वर्थेन निरूपितं जनकत्वं तन्निष्ठजन्यत्वं वा द्योतनं च तेजोविषयकं चाक्षुषं तादृशः साक्षात्कारो वा तत्र वृचहेतुकत्वमन्वेति तत्र वृक्षादेर्हेतुत्वं चक्षुरादिसन्निकर्षाणांसान्निध्येन विद्युदाद्याभिमुख्यद्दारा कथं चित्प्रयोजकत्व - स्वरूपं बोध्यं तिङर्थो विषयत्वं तथा च वृक्षप्रयोज्यस्य तेजोविषयकस्य चाक्षुषस्य साक्षात्कारस्य वा विषयो विदित्यन्वयबोधः धात्वर्थनिरूपित हेतुताविशेषस्य प्रकृते प्रतिपादनात् हेतुतासामान्यप्रतिपादकस्य अनुर्लक्षणे इत्यनुशासनस्य न वैयर्थ्यमतो दण्डमनु घट इत्यादी दण्डादिहेतुकत्वं घटादौ प्रतीयते अत एव परिपन्थ च तिष्ठतीतिनिर्देशस्तत्र परिपन्यशब्दस्य निपात्यमानत्वेऽपि परियोगावैकल्याद् द्वितीया तदर्थो हेतुत्वविशेषो धात्वस्थितावन्तीति । इत्थंभावो वास्तवसंबन्धो द्वितीयार्थः स च क्व चिद्दिषयिविषयभावः यथा विष्णुं प्रति परि अनु वा भक्त इत्यत्र इष्टत्वेन इष्टसाधनत्वेन पूज्यत्वेन वा ज्ञानं भक्तिः दृष्टमामिकं बोध्यं तव द्वितौयार्थो विषयित्वमन्येति तथा च विष्णुविषयकेष्टसाधनत्वादिप्रकारकज्ञानवानित्यन्वयबोधः क्व चिदुद्देश्योद्द श्यिभाव
Aho ! Shrutgyanam