________________
विभक्त्यर्थनिर्णये ।
66
भ्यां व्युत्पत्तिवैचित्र्य णान्वयोपगमाद् धनसामान्याभावलाभ: अभावयोः प्रयोज्यप्रयोजकभावो योगक्षेमसाधारणः संसर्गस्तथा च धनसामान्याभावप्रयुक्तः सुखसामान्याभाव इत्यन्वयबोधः गीतश्रवणजन्मन ऐहिकस्य नपादिप्रयोज्य स्यामुष्मिकस्य च सुखस्य धनं विनाऽपि सम्भव इति कथं सुखसामान्याभावो धनसामान्याभावप्रयुक्त इति यदि तदा धनमन्तरेण न दानं यागो वेत्युदाहर बोध्यमिति क्वचिदन्तराशब्दस्याप्यभावोऽर्थः यथा अध्ययनमन्तरा न पाण्डित्यमिति । "अनुर्लक्षणे" इति सूत्र लक्षणे द्योत्ये अनुः कर्मप्रवचनीयसंज्ञः स्यादित्यर्थकं"कर्मप्रवचनीययुक्ते द्वितीया" इत्यनुशासनं कर्मप्रवचनीय योगे द्वितीया भवतीत्यर्थकं लक्षणं हेतुत्वं तथा च जपमनु प्रावर्षदित्यव द्वितीयाया हेतुत्वं जन्यत्वमर्थः प्रवर्षग्रेऽन्वेति अनुशब्दस्तु समभिव्याहारखरूपाकाङ्क्षा प्रयोजकी निरर्थक एव न चानुशब्दस्यैव हेतुत्वमर्थो द्वितीया निरर्थिका तथा ऽस्त्विति वाच्यम् । द्वितीयाया निरर्थकत्वस्य काप्यदृष्टत्वात् दर्शितानुशासनद्वयस्य जपेन प्रावर्षदिति हेतुटतीयाबाधकत्वाच्च । " तृतीयार्थे" इत्यनुशासनं तृतीयार्थे साहित्ये द्योत्ये अनुः कर्मप्रवचनीयसंज्ञः स्यादित्यर्थ तथा च नदौमन्ववसिता सेनेत्यव द्वितीयार्थः साहित्यमन्ववसितार्येऽन्वेति एवं नद्या सह संबद्धेत्यन्वयबोधः । " हौने" इति सूत्रं होने द्योत्ये अनुः प्राकसंज्ञः स्यादित्यर्थकं तथा चानु हरिं सुरा इत्यव होत्वं द्वितीयार्थः सुरेष्वन्वति होनत्वमपकर्षोऽवन्ध्येच्छत्वादिविरहखरूपो बोध्यः । "उपोऽधिकेच" । इति सवं
२४
Aho ! Shrutgyanam
१८५