________________
विभक्त्यर्थनिर्णये।
१७५ तिष्ठति वा हरिरित्यादौ कर्ट घटितपरम्परासंसर्गावच्छिन्नमाधेयत्वं द्वितीयार्थी धात्वर्थव्यापारी शयनादाववेति शौस्थासामर्थाः पूर्वमेवोक्ता अधिस्तु कर्मप्रत्ययाकाङ्क्षायामुपयुक्नो निरर्थक एव । अभिनिविशतेराधार कर्मत्वं ज्ञापयति । "अभिनिविशश्च" इत्यनुशासनम् । अभिनिपूर्वकस्य विशतेराधारः कर्मसंजक इत्यर्थकम् अभिनिविशते सन्मार्गमित्यनाभिनिविशो धारापन्नज्ञानं तज्जन्मा दृढतरसंस्कारो वाऽर्थः यतिवत्फलावाचकत्वादकर्मकत्वं सन्मार्गादिविशेषितं विषयतासंबन्धावच्छिन्नमाधेयत्वं द्वितीयार्थस्तादृशे जाने संस्कार वा धात्वर्थइन्वेति यदि च साक्षात्संबन्धावच्छिन्नाधे यत्वस्य सप्तम्यथस्येव सप्तम्यर्थानुशिष्टहितीयार्थस्यापि धात्वर्थान्वयोनाम्यपेयते तदा व्यापारानुबन्धिविषयतास्वकर्ट संबन्धघटितपरम्परासंबन्धावच्छिन्नमाधेयत्वं हितौयार्थ इति विशतेस्तु अन्तरवयवावच्छिन्नसंयोगानुकूलो व्यापारोऽ
र्थो ऽत एवायं सकर्मक: अन्तरवयवास्तु विजातीयारम्भकसंयोगवदवयवाः आरबैकावयविभिन्नावयव्यारम्भकसंयोगानधिकरणावयवा वा गृहादिबहिरवयवानामलिन्दादीनां गृहान्याङ्गनायवयव्यारम्भकसंयोगवत्वान्नान्तरव यवत्वमिति अन्तर्विशतीत्यादावन्तरिति लुप्तससमीकमव्ययं न तु लुप्तहितीयान्तमधः पततीत्यत्राधःपदवदतो नानुपपतिरिति मन्तव्यम् । निविशतेस्तु तथाविधः संयोग एवार्थो त एवायमकर्मक इति । यत्न तु कारणतायां प्रविशति निविशते वा इति प्रयोगस्तत्र प्रपर्वस्य वा विशतेर्घटकत्वलक्षणसंवन्धोऽर्थस्तत्र कारणता
Aho! Shrutgyanam