________________
१४४ द्वितीयाविभक्तिविचारः । प्रसक्त णिजयकर्मत्वं निषेधति "आदिखाद्योः प्रतिषेधोवक्तव्य" इत्यनुशासनं तेन णिजन्त योरादिखाद्योरणिजन्तादिखादतिकर्तरि कमत्वनिषेधो जाप्यते तेनादयति खादयति वाऽन्नं वटुनेति प्रमाणं न तु अोदयति खादयति वाऽन्नं वटमिति । "भक्षरहिंसार्थस्य प्रतिषेधो वक्तव्य"इत्यनुशासनं भने: कर्तरि णिजथंकर्मत्वं निषेधति तेन भक्ष यत्यन्नं वटुनेति प्रमाणं न तु भक्षयत्यन्नं वटुमिति हिंसार्थस्य कर्तरि न णिजर्थकर्मत्वनिषेध: हिंसार्थत्वं तु हिंसानुगुणीभूतार्थ कत्वं न तु हिंसावाचकत्वंभक्षिणा मरणानुकूलव्यापारस्य वाऽप्यवोधनात् तेन भक्षयति बलौवर्दान् सस्यमिति प्रयोग उपपद्यते क्षेत्रस्थ सस्यानां प्राणित्वात् सस्यभोजनस्य सस्यमरणानुगुणत्वात् । अकर्मकतया शब्दायते: कर्तरि प्रसक्तं णिजथकर्मत्वं निषेधति "शब्दायतेः प्रतिषेधो वक्तव्य"इत्यनुशासनं तेन शब्दाययति सैनिकैरिति प्रमाणं न तु शब्दाययति सैनिकानिति । वैकुण्ठमधिशेते हरिरित्यादौ वैकुण्ठादेः कर्मत्वोपपत्तये"अधिशौङस्थासां कर्म" इत्यनुशासनम् । अधिपूर्वकाणां शौस्थासां कट कर्माधारः कर्मसंन इत्यर्थकं यद्यप्यधिशयत्यादेरकर्मकस्य कर्मत्वं वैकुण्ठादिदेशस्य मासादिकालस्य च वार्तिकेनैवोपपादितंदेशकालयोरवाधारत्वादनुशासनवैयर्यम् । तथापि वार्त्तिके देशः कुरुत्वपञ्चालत्वादिना कालोऽपि तदवान्तरधर्मेण ज्ञापितः न तु देशत्वेन कालत्वेन प्रकृतसूत्रेण देशत्वेन कालत्वेनापि देशान्योऽपि गृहशय्यादिस्तथाक्तइति न वैयध्यमिति । एवं वैकुण्ठमधिशेतेऽध्यास्तेऽधि
Aho! Shrutgyanam