________________
१७६
द्वितीयाविभक्तिविचारः ।
विशेषितस्य सप्तम्यर्थस्य निरूपकत्वेन निरूपकनिरुपकस्वेन वा संबन्धेनावच्छिन्न स्याधेयत्वस्यान्वय इति एष्वथेंष्वभिनिविष्टानामिति फणिभाष्यप्रयोगदर्शनात् सूत्रे चकारोऽधिकतया क्वचित्कर्मसंज्ञा निषेधं सूचयति यथा पापेऽभिनिविशत इति । उपवसति वैकुण्ठमित्यादौ वैकुण्ठादेः कर्मत्वोपपत्तये " उपान्वध्याङ्गस" इत्यनुशासनमुपादिपूर्वकस्य वसतेराधारः कर्मसंज्ञ इत्यर्थकम् । उपवसति अनुवसति अधिवसति आवसति वा वैकुण्ठं हरिरित्यत्र भूयः कालावच्छिन्नसत्वं वसेरर्थस्तव कर्तृ संब
टितपरम्परा संसर्गावच्छिन्नमाधेयत्वं द्वितीयार्थो धावर्थेऽन्वेति यत्राभोजनमुपवसेरर्थस्तव कर्मसंज्ञानिषेधक"मभुक्त्यर्थस्य तु ने”ति वार्त्तिकम् । तेन वनेतूपवसतीत्येव प्रमाणम् । एकादशी मुपवसेद्वादशौ मथवा पुनः । इत्यादावुपवसेरभोजनं नार्थः किं तु दोषादुपावृत्तस्य गुणैः सह वासः ।
उपावृत्तस्य दोषेभ्यो
यस्तु बासो गुणैः सह । उपवासः स विज्ञेयः सर्वभोगविवर्जितः इत्यार्षपरिभाषणादतो न द्वितीयानुपपत्तिरिति वदन्ति । वस्तुतस्तूपवसेर भोजनार्थकत्वेप्य कर्मकत्वमचतमेवेति देशकाला दौनामकर्मककर्मत्वं वार्त्तिकेन ज्ञापितमिति न द्वितीयानुपपत्तिः कालिकाधेयत्वस्य द्वितौयाधेयत्वं न तु कट सम्बन्धघटित परम्परावच्छिन्नाधेयत्वस्येति । शौङादीनां वस्यन्तानामनुपसृष्टानामाधारस्थाधिकरणसंज्ञा उपसृष्टानों तु कर्मसंज्ञेत्यन्यपूर्वकं कर्म विज्ञेयमिति । " क्रुधद्रुहोरुपसृष्टयोः कर्मे त्वनुशासनम् । क्रु
99.
Aho! Shrutgyanam