________________
विभक्त्यर्थनिर्णये। कसत्त्वहतोरिदंपदार्थतया तस्य दर्शनकर्तृत्वं बाधितमिति दृशः प्राप्तौ लक्षणा तथा च दर्शयेत्यस्य प्रापयेत्यर्थ. दृश्यर्थप्राप्तिकर्तरि सत्त्वादौ कर्मत्वज्ञापनं दृशेश्चेत्यनुशासन फलम् । न च प्राप्तेर्गतित्वात् तदर्थकस्य दृशः कर्तरि गत्यादिसूत्रेणैव कर्मत्वसिद्धेः पृथगनुशासनवैयर्थ्यमितिति वाच्यम् । गत्यादिसूत्रे गतिवाचकानामेवोपादानात् न तु गतिलक्षकानां अन्यथा पचेर्गतिलाक्षणिकत्वे पाचयति देवदत्तं यज्ञदत्त इति प्रयोगापत्तेः । एवमयस्कान्तमयो दर्शयतीत्यत्राव्यवहितावस्थानं दृशरथः तत्रायःकर्मत्वमव्यवधाने फलेऽन्वेति भयकान्तनिष्ठकतत्वलक्षणं कर्मत्वमवस्थानेऽन्वेति एवं परमाणुं योगिधियंदर्शयतीत्यत्र विषयताप्रतियोगित्वं दृशेरर्थस्तत्र परमाणुविशषितमाधयत्वं विषयत्वे फलेऽन्वेति धौविशेषितं कटत्वमाधेयत्वलक्षण प्रतियोगित्वेऽन्वेति । तादृशप्रतियोगित्वं तु प्रयोजकतया णिजथें योगजधर्मलक्षणातिशयविशेषे योगाभ्यासादिव्यापारेऽन्वेतौति । यत्तु दृशश्चेति पृथगनुशासनेन गत्यादिसूबे बुद्धिपदेन ज्ञानत्वविशिष्टवाचिनामेव ग्रहणं न तु जानत्वव्याप्यविशिष्टवाचिनां स्मरतिजिघ्रत्यादौनामिति ज्ञायते अन्यथा पृथगनुशासनवैयर्यप्रसङ्गादिति शाब्दिकैरुक्तं तन्न पृथगनुशासनसार्थक्यस्य दर्शितत्वात् स्मरतियोगे स्मारयत्येनमितिभाष्यप्रयोगस्य दर्शितत्वाच्च । जिघ्रतियोगेऽपि प्रापयत्योषधीगन्धं वाहान्सतः स्पर्शयति कन्यां वरं परिचारिकेत्यादिप्रयोग इष्ट एव "अभिवादिहशोरात्मनेपदे वेति बाच्य"मिति वार्तिकेनाभिवादिहशोः कर्तरि कर्मवविकल्प
Aho! Shrutgyanam