________________
१४८
द्वितीयाविभक्तिविचारः ।
अत एव संयोगनाशो न चिनोतेर्गुणफलं तथासति द शितपञ्चमीप्रयोगानुपपत्तेरिति । यदि च इष्टकाञ्चिनोतीतिप्रयोगस्तदा सजातीयसंयोगो व्यापारश्च चिनोतेरर्थः इष्टकावृत्तिसजातीयप्रतियोगिक संयोगो व्यापारे प्रयोजकतयाऽन्वेति यदि च इष्टकाभित्तिं चिनोतीतिप्रयोगस्तदासजातीयप्रतियोगिकसंयोग उत्पत्तिर्व्यापारोऽपि चिनोतेरर्थः इष्टकावृत्तितादृशसंयोगस्य प्रयोज्यतया भित्तिवृत्युत्पत्तौ सा प्रयोजकतया व्यापारेऽन्वेतीति चिनोतेरर्थान्तरेऽपि द्विकर्मकत्वमिति । संस्कारः शाब्दबोधः वाक्यानुगुणेच्छा चं ब्रुवेरर्थः नृपहितं ब्रवोतौयत्र नृपसमवेतसंस्कारो विषयतया हितवृत्तौ शाब्दबोधे प्रयोजकतया स चोद्देश्यितया वाक्यानुगुणेच्छायामन्वेति यदि चाभिनयादिना बोधनेऽपि ब्रविप्रयोगस्तदा थाब्दबोधस्थाने ज्ञानसामान्यं वाक्यस्थाने व्यापारमाव ब्रुवेरर्थेषु निविशतेऽन्वयस्तु पूर्ववत् यत्तु ज्ञानानुकूलः शब्दो ब्रुवेरर्थः शिष्यं धर्मं ब्रवोतीत्यव ज्ञानरूपफले शिष्यसमवेतत्वं धर्मविषयत्वं च द्वितीयान्तार्थद्वयमन्वेतौति तदसत् ज्ञानस्यैकस्यैव फलतया गुणफलाभावेन शिप्यादे गया कर्मत्वानुपपत्तेः शिष्यं धर्म ब्रवीति शिष्यस्त न शृणोतीति प्रयोगानुपपत्तेश्च ब्रुविपर्यायवदत्यादयोऽपि द्दिकर्मका इति वदन्ति । कृतिरुपदेशो व्यापारानुगुणेच्छा च शास्तेरर्थः कृतिः प्रवृत्तिर्निवृत्तिश्च उपदेश इष्टसाधनत्वेनानिष्टसाधनत्वेन वा ज्ञानं बोध्यं शिष्यं धममधर्मं वा शास्ति गुरुरित्यव शिष्यसमवेता प्रवृत्तिनिवृत्तिर्वा विषयतया धर्मवृत्तावधर्मवृत्तौ वा इष्टसा
Aho ! Shrutgyanam