________________
विभक्त्यर्थनिर्णये । धनत्वेनानिष्टसाधनत्वेन वा जाने प्रयोजकतया तबोहेश्यितयाऽन्वेति इच्छाया धात्वर्थे निवेशात् शिष्य धर्म शास्ति शिष्यो धर्म न प्रवर्तते न वा तमिष्टसाधनत्वेन जानातीत्यादि प्रयोगस्य नानुपपत्तिः । भजात्यागो ग्रहणव्यापारश्च जयतेरर्थ: भङ्गो दातादौ समोहितापदायाद्यनुपहितेच्छा युद्धादी पलायनादिः पाक्षिकशतं जयतीत्यत्नाक्षिकसमवेताभदायाद्यनुपहितेच्छाविषयतया शतवृत्तौ त्याग स चग्रहणव्यापारे प्रयोज्यतयाऽन्वेति श→ महौं जयतीत्यत्र तिपलायनादिकं विषयतथा महीरत्ती त्यागेस चग्रहणव्यापारे प्रयोज्यतयाऽन्वेतीति । स्वत्वनिष्ठानिष्टसाधनताज्ञानप्रयोज्यदेषम्त्यागो ग्रइणव्यापारश्च दण्डयतेरथः गगं शतं दण्डयतीत्यत्र गर्गवृत्तिस्तादृशदेषो विषयतया शतवत्तौ त्यागे स च ग्रहगाव्यापारे प्रयोज्यतयाऽन्वेति शतानपंणदण्डताडनादि सम्भावनया शतस्वत्वे द्वेषः ततः शतस्वत्वनाशेच्छास्वरूपस्त्याग इत्युपपत्तिरिति । अवयवसंयोगनाश उगमनकमव्यापारश्च मनातेरर्थ: दधि घृतं मनातीत्यत्र सामानाधिकरण्येन दधिवृत्तिरवयवसंयोगनाशो तसमवेतीहुमनकर्मणि प्रयोज्यतया उगमनकर्म तु प्रयोजकतया विलोड नव्यापार अन्वेति तस्य दधिनाशजन्यत्वाध्यवयवसं योगनाशस्य तकर्मप्रयोजकल्वाङ्गवत्युपपत्तिः । एवं क्षीरसागर कौस्तुभं मथातीत्यत्रापि क्षीरसागरावयवकौस्तुभसंयोगानां कौस्तुभोगमनप्रतिबन्धकानां नाशे सति मन्दरादिसंयोगजं कौस्तुभोगमनं भवतीति ताहुशसंयोगनाशप्रयोज्यत्वं कौस्तुभोजमने सम्भवतीति ना--
Aho! Shrutgyanam