________________
१३८ द्वितीयाविभक्तिविचारः। ज्ञापकादेवमवधार्यते ज्ञापकं तु "तथा युक्तं चानीप्सितमि"ति सूत्रं तथा ईप्सिततमवद् युक्तं धात्वर्थ: फलेनेति शेष: यहा तथा धात्वर्थफलेन युक्तमित्यर्थश्शीऽप्यर्थः ईदृशमनीप्सितमपि कर्मसंज्ञकमित्यर्थकम् । अनीप्सितं वेधा ईप्साया अविषयो देषस्य विषयश्च । आदां यथा ग्राम गच्छस्तणं स्पृशतीत्यत्र टणमौसाया अविषयः हितोयं यथा रथ्यां गच्छंचाण्डालं स्टशतीत्यत्र स्पर्शवत्तया द्वेषस्य विषयश्चाण्डालः इत्थं चाप्यर्थकेन चकारेणप्सिततमानीप्सितयोरांबवक्षणात्तथा युक्तं कर्मति ज्ञाप्यते इति धात्वर्थफलवत्वं सत्रादेवावधारित मिति । गां दोग्धि दुग्धमित्यादौ गवादेः कर्मत्वोपपत्तये "अकथितं च" इत्यनुशासनं अपादानादिभिरकथितं का. रकं कर्मसंतं भवतीत्यर्थकम् । अत्र केचित् दुहे: स्यन्दनं तदनुकूलो व्यापारश्चार्थ: स्यन्दनत्वं द्रवत्वजन्यतावच्छेदिका क्षौरादिक्रियावृत्तिर्जाति: गोपदोत्तरहितीयाया विभागोऽर्थः दुग्धपदोत्तरहितीयाया आधेयत्वमर्थः दितौयार्थविभागस्यानुकूलतया स्यन्दनेऽस्य तथैव व्यापारइन्वयः एवं गोविभागानुकूलदुग्धत्तिस्यन्दनानुकूलव्यापारानुकूलकतिमान्गोपाल इत्याकारको गां दोग्धि दुग्धं गोपाल इत्यत्र शाब्दबोधः न च विभागः पञ्चम्यर्थत्वादपादानत्वमेव तद्विवक्षायामपादानाद्यकथनासम्भवात् कर्मत्वानुपपत्त्या द्वितीयाऽनुपपत्तिरिति वाच्यम् । प्रधानीभूतधात्वर्धान्वयिनो विभागस्यापादानस्वरूपत्वात वृक्षात्पणं पततोत्यादौ प्रधाने स्पन्दे पतत्यर्थे पञ्जयविभागस्यान्वयात् प्रकृते स्यन्दनानुकूलव्यापारे वि-
Aho! Shrutgyanam