________________
विभक्त्यर्थनिर्णये।
१३५, दोषः जान्हव्यादिशब्द लक्षणाप्रयोगविरहापि जान्हव्यां घोष इत्याद्याधुनिकप्रयोगे जान्हव्यादिशब्दे लक्षणायाः सर्वसंमतत्वात् । किं चापूर्वचैत्रादिशब्दस्य शिष्टत्वं प्राचत्वादिचैत्रादिधर्मप्रतिपत्तये चैत्रादिसम्बन्धिनि लक्षणा न स्यात् प्रयोगविरहात् प्रयोजनराहित्यस्यावश्यकतया दोषत्वे सति प्रयोगराहित्यस्य दोषत्वे मानाभावश्च रूपं वस्त्रमित्यादी लक्षणायाः प्रयोजनराहित्येनैव दुष्टत्वात् । अत एव काव्यप्रकाशे प्रयोजनराहित्यं नेथार्थतेति व्यवस्थापितम् । एवं ज्ञाधातोर्बुद्धिः फलं तदनुकूलो मनोयोगादिक्पारश्चार्थ इत्यपि न विचारसह तथा सति भगवान् सर्व जानातीत्यादावनम्बयापत्तेः भगवज्ञानस्य नित्यस्यानुकूलतासंसर्गेण व्यापारोन्यथायोगात् मनोयोगादिव्यापारस्य भगवति बाधितत्वाच्च एतेनाकथितं चेति सूत्रेण विषये कर्मसंज्ञा ज्ञाप्यते इति विषयत्वमनुशासनसिद्धमेव द्वितीयार्थः विषयत्वस्वरूपकर्मत्वं न भेदघटितमिति स्वं जानातीत्यादौ नानपपत्तिरित्यपि निरस्तम् । अव विषयत्वं फलान्वथि व्यापारान्वयि वा आद्ये बुद्धेः फलत्वासम्भवस्योक्तत्वात् जानात्यादियोगे द्वितीयाऽनुपपत्तिः अन्त्ये यत्नम्वरूपव्यापारान्वय सम्भवात् योगेऽपि दुितौयाप्रसङ्गः यदपि कमस्थभावक निर्वयविकार्ययोः कर्मवतावस्यातिदेशेन हितीयानिषेधः प्राप्य कर्मणि तदतिदेशविरहेण न हितीयानिषेध इति कर्मस्थभावके स्वं जानातीत्यादावाधेयत्वमानार्थिका द्वितीया नानुपपन्नेति तदपि चिन्त्यं यव हि फलं धातुना तिङा वा प्राधान्येन प्रत्याय्यते तत्र
Aho! Shrutgyanam