________________
१३४
द्वितीयाविभक्तिविचारः ।
यार्थाधेयत्वस्य व्युत्पत्तिवैचिच्येण व्यापारवद्भेदावच्छिन्नसमवायावच्छिन्नाधेयत्वौयस्वरूपसंबन्धेनान्वयोपगमादेव चैत्रश्चैवं गच्छतीत्यादिपयोगवारणं सम्भवतीत्यादिकं पूर्वोक्तं अर्तव्यमिति । केचित्तु ज्ञाधातोर्बुद्धि: फलं तदनुकूलो मनोयोगादिव्यापारश्चार्थः बुध्यन्वयिनि विषयत्वे द्वितीया लाक्षणिको विषये न कर्मसंज्ञामपेक्षते इति स्वं जानातीत्यत्व कर्तरि विषये द्वितीया नानुपपन्ना नियमः प्रकृतेषु वेति वार्तिकं तु निरुटलक्षणामेव नियमयति इयं तु स्वारसिकौ विभक्तेर्विषयत्वादी लक्षणा एवं स्वं हिनस्तौत्यव द्वितीया प्रतियो गित्वं ध्वंसात्मकफलान्वितं लचयति न चापेचते प्रतियोगिनि कर्मसंज्ञामा कडारादिति परया क संज्ञया तदपवादात् अभिधेयमात्रं न द्वितीया प्रतिपादयति भेदमादायैव तस्या खाभिधेयप्रतिपादकत्वादतश्चैल गच्छतौति न प्रयोगः नचैत्रं स्वारसिकलक्षणाया अनि• यम्यत्वे द्वितीया लक्षणया गगनमपि बोधयेदिति वाच्यम् । स्वारसिकलक्षणायामप्यप्रयोगस्य बाधकत्वात् । यदाहुः ।
निरूढा लक्षणाः काश्चित्प्रसिद्धा अभिधानवत् । क्रियन्ते सांप्रतं काश्चित्कश्चिन्नैव त्वशक्तितः ॥
इति अशक्तिरप्रयोगः प्रयोजन राहित्यं च उदाहरन्ति रूपं वस्त्रमिति नेथार्थतापौयमेव यदप्रयोग प्रतितलक्षणात्वं प्रयोजन राहित्यमपि प्रयोजनप्रतिपतिप्रयोजकतावच्छेदकवल्लक्षणात्वविरह इति तत्र तत्रावगन्तव्यमिति वदन्ति । तदपि न सुन्दर तथा हि प्रयो-जनवत्वे सति प्रयोगराहित्यं स्वारसिकलक्षणायां न
Aho ! Shrutgyanam
ר