________________
विभक्त्यर्थनिर्णये ।
१३३
मेव वार्त्तिकेन सूचनात् श्रन्यथा तिङामपि लक्षणा न स्यात् न चेष्टापत्तिरिति वाच्यं घटो नश्यतीत्यादौ शाव्दिकमते आश्रयस्य दार्शनिकमते यत्नादेस्तिङर्थस्य बावन प्रतियोगिनि प्रतियोगित्वे वा तिङो लक्षणां विनाऽ न्वयानुपपत्तिप्रसङ्गात् । ननु भवतु तिङो लक्षणा सुपोऽननुशिष्टेऽर्थे लक्षणायाः क्वाप्यदर्शनाद द्वितीयाया नाधेयत्वमात्रळे लक्षणा युज्यते अत एव सुम्विभक्तौ न ल - चणेति प्रवादः न च विषयत्वे द्वितीयाया लक्षणादर्शनानेदं युक्तम् अत एव घटं जानातीत्यादावन्वयबोधोपपत्तिरिति वाच्यं विषयत्वे द्वितौयाया लक्षणाभ्युपगमस्य निराकरिष्यमाणत्वात् घटं जानातीत्यादावन्वयबोधोपपत्तेर्वच्यमाणत्वाच्चेति चेन्न द्वितीयाया लक्षणाभ्युपगस्यावश्यकत्वात् तथा हि शात्रवान् हिनस्ति हन्ति पुण्यं पुराकृतमित्यादो नाशानुकूलव्यापारार्थकस्य हिंसेईन्तेश्च फले नाशे शात्रवाधेयत्वस्य पुण्याधेयत्वस्य च बाधात् द्वितीयायाः प्रतियोगिनि प्रतियोगित्वे वा यथाद र्शनं लक्षणाभ्युपगम आवश्यक : अन्यथाऽन्वयबोधानुपपत्तेरिति । यदि च दर्शितस्थले प्रतियोगिता नाशश्च si are: fasa व्यापारः शात्रवाधेयत्वस्य पुण्यायत्वस्य च फले प्रतियोगितायां सा नाशे सोऽनुकूलतया तिङर्थे व्यापारे विशेषणौभूयान्वेतोत्यन्यवापि धातोः - शब्दान्तरस्य वाऽर्थकल्पनयोपपत्तौ द्वितीयाया लक्षणा न क्वाप्यभ्यपेयते इति तदा पूर्वोक्ताभिनवरीत्या आधेयत्वमात्रं द्वितीयार्थस्तावतैव स्वं जानातीत्यादावन्वयबोधोपपत्तिः व्यासज्यवृत्तिसंयोगादी गम्यादिफले द्विती
Aho ! Shrutgyanam