________________
विभक्त्यर्थनिर्णये ।
इति सुपां तिङा च यथानुशासनं तत्रानुशासनानि नियमपर्यवसायौनि स च नियम एकवचनमेवैकत्वं हिवचनमेव द्दित्वं द्दितौयैव कर्मत्वं बोधयतीत्याकारकस्तेन द्वितौयाभिन्ने कर्मत्ववोधकत्वाभावः पर्यवस्यति । नन्वेवं द्वितीया कर्मत्वमपहाय क्वचिद्गगनादिकमपि बोधयेत्तावताऽप्यक्तनियमभङ्गादित्यतः पचान्तरमाह नियम: प्रकृतेषु वेति तथा च द्वितीया कर्मत्वमेव बोधयतोति नियमः स च यावन्तोऽनुशासन सिद्दा द्वितौयार्थास्तेभ्यः प्रतेभ्योऽन्यमर्थं द्वितीया न प्रतिपादयतीत्यर्थतः पर्यवसित इति तस्य वार्त्तिकस्य विवरणम् श्रतः कथमननुशिष्टे आधेयत्वमात्रे द्वितीया साधुरिति चेन्न । विभक्तिः प्रकृतेष्वेवेति नियम शरीरस्यासम्भवदुक्तिकत्वात् तब हि विभक्तितत्वावच्छेदेन प्रकृतभिन्नाप्रतिपादकत्वं च प्रतीयते । ननु विभक्तित्व सामानाधिकरण्येन उद्देश्यतावच्छेदकावच्छेदेनोभयभागान्वय योग्यत्व एवैवकारस्य साधुत्वादन्यथा विभक्तिः कर्मण्येव शब्दो वाचक एवेति प्रयोगप्रसङ्गात् । न च विभक्तितत्वावच्छेदेन प्रकृतप्रतिपादकत्वमस्ति विशेषणवाचकसमभिव्याहृतानामव्ययनिपातसमभिव्याहृतानां च सुपां निरर्थकत्वदर्शनात् प्रातिपदिकार्थः सत्ता सुपामर्थ इत्यस्य प्रागेव निराकृतत्वात् । ननु भवतु तर्हि विभक्तिः प्रकृतेष्विति परिसंख्या विभक्ति: प्रकतेतरन्न प्रतिपादयतीत्येवंरूपा तख एव च्छन्दसि प्रतिप्रसवः सुपां सुत्रिति तेन स्वर्गकामो यजेतेdea महमते प्रथमा यागभावना कर्मत्वं लक्षणया स्वर्गस्य प्रतिपादयन्ती नाननुशिष्टविषया एवं सम्पन्ना ब्रोहय
Aho ! Shrutgyanam
१३१