________________
१३० द्वितीयाविभक्तिविचारः। भकसंयोगमाचविरोधिना कर्मगा भुग्नत्वगुणोत्पत्त्या विकार्य कुण्डलपदस्य हि भुग्नं द्रव्यमर्थः धात्वर्थोत्पत्तिस्तु भुग्नत्व एवार्थतोऽन्वेति इत्यर्थिका । प्राप्यलक्षणमप्याह हरिरव ।
क्रियाकृतविशेषाणां मिडियंत्र न गम्यते । । दर्शनादनुमानाहा तत्याप्यमिति कथ्यते॥ तत्र क्रियाकृतविशेषा उत्पत्तिक्षयोपचयादयो भावविकारा एव गण नौया इति पदवाक्यरत्नाकरे प्राहुः । एवं सकलकर्मगतफलोन्वयि आधेयत्वं हितोयाऽर्थः । ननु भेदस्य हितीयार्थतावादे आत्मानमात्मना वेत्सोत्यादी कथं भेदान्वयः कर्तकर्मणोर्यप्नदात्मशब्दार्थयोरैक्यात शाब्दिकमते परया कर्तृसंजया कर्मसंज्ञाया बाधाद्दर्शितस्थले द्वितीयायो एवानुपपत्तिः न च युष्मदात्मशब्दार्थयोरवच्छेदकभेदेन भेदोपगमादैक्येऽपि कर्तृत्वकर्मलोपपत्तिरिति वाच्यम् । अवच्छेदकभेदेन भेदोपगमस्य बाद्यमनप्रवेशप्रसञ्जकलात् तथा सति चैत्रश्चैत्रं गच्छतौति प्रयोगप्रसङ्गाच्च तथाचीभयमते प्रकृतानुपपत्तिरिति चेत अनाहुः पुष्यवन्तपदवत् हितोयाया भेदाधेयत्वयोरेकशतिखीकारेण दर्शितस्थले भेदबाधे आधेयत्वमावलक्षणाभ्युपगमाविधेः श्येनोदौ बलवदनिष्टाननुबन्धित्वबाधे दृष्टसाधनत्वमानार्थकत्वादिव वाक्यार्थबोधोपपत्तिरिति तार्किकमतमुत्कर्षमावहति । ननु लौकिकवाक्ये विभके लक्षणा तथा हि वार्तिकम् ।।
सुपा कर्मादयोऽप्यर्थाः संख्या चैव तथा तिङाम् । प्रसिद्धो नियमस्तन नियमः प्रकृतेषु वा ॥
Aho! Shrutgyanam