________________
१२४
द्वितीयाविभक्तिविचारः ।
हा फूत्कारादेर्न प्रतीतिस्तथा गच्छतीत्यादावपि न तत्प्रतीतिरिति समभिव्याहारज्ञानस्य न हेतुत्वमिति चेत् तथापि धातोर्व्यापारावाचित्वं न युज्यते तथा सति गुरुः शिष्येण वाचयतीत्यादौ जिर्थस्य प्रयोजकव्यापारस्य तिङर्थं प्रयोज्यव्यापारं प्रति प्रकृत्यर्थत्वादप्राधान्यापत्तिराख्यातार्थव्यापारानन्वयिनि गुरौ संख्यान्वयासम्भवादनभिधानेन गुरुपदात्तृतीयाऽऽपत्तिः शिष्य व्यापारस्य तिङभिधानात् शिष्यपदाच्च प्रथमापत्तिश्चेति वदन्ति । तञ्चिन्त्यं णिजर्थस्याप्राधान्येऽपि जिर्थवत्वं कर्तृत्वं गुरावचतमेव । वस्तुतस्तु णिच् प्रकृतिकतिङ एव प्रयोजकव्यापारोऽर्थः स च धात्वर्थफले परम्परासंबन्धेनान्वेति तृतीयार्थप्रयोज्यव्यापारः साचादन्वेति तथा च गुरुः शिष्येण वाचयतौ त्यत्र गुरौ प्रयोजकव्यापाररूपकर्तृत्वस्य कर्तृ संख्यायाश्च तिङ्ाऽभिधानाद्गुरुरित्यत्र ने तृतीयाप्रसक्तिः शिष्ये प्रयोज्य व्यापाररूपकर्तृत्वस्य कर्तृ संख्यायाश्च तिङाइनभिधानान्न दतौयाऽनुपपतिरिति मण्डन मिश्रमते शाब्दिकोक्तो यद्यपि न दोषस्तथापि धातोर्व्यापारावाचकत्वं न युज्यते तथा मतिप्रसृतं गच्छति तिर्यक् गच्छतीत्यादी प्रसृतादिपदार्थानां कर्मविशेषाणां धात्वर्थविशेषयत्वानुपपत्तिप्रसङ्गः फले संयोगादौ तादात्म्येनान्वयायोग्यत्वात् । न चात्र प्रसृतादीनां तिङर्थव्यापारे तादात्म्येनान्वयाविशेषणत्वमिति वाच्यम् तथापि प्रसृतं गम्यते ग्राम इत्यादौ संयोगात्मकफलान्विते तिङर्थाश्रयत्वेऽभेदान्वयायोग्यत्वादनुपपत्तितादवस्थ्यात् किं च वृक्षाद्भूतलं गम्यते इत्यादी पञ्चम्यर्थविभागस्य न
Aho ! Shrutgyanam